2026-01-29 07:15:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३२६
हन्त भोः !
अभिषेकनाटके
</ignore>
<verse>युक्तं भो ! नरपतिधर्ममास्थितेन
युद्धे मां छलयितुमक्रमेण राम ! ।
वीरेण व्यपगतधर्मसंशयेन
लोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥
</verse>

हन्त भोः !

<verse>भवता सौम्यरूपेण यशसो भाजनेन च ।
छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥
[ i. 17. -
</verse>

भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा
सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः ।

<speaker>रामः -</speaker> कथमधर्म्यः खलु प्रच्छन्नो वध इति ।
राम:-
३

<speaker>वाली -</speaker> कः संशयः ।

<speaker>रामः -</speaker> न खल्वेतत् । पश्य,

<verse>वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः ।
वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥
</verse>

<speaker>वाली -</speaker> दण्डड्य इति मां भवान् मन्यते ।

<speaker>रामः -</speaker> कः संशयः ।
३

<speaker>वाली -</speaker> केन कारणेन ।

<speaker>रामः -</speaker> अगम्यागमनेन ।

<speaker>वाली-</speaker> अगम्यागमनेनेति । एषोऽस्माकं धर्मः ।
६

<speaker>रामः -</speaker> ननु युक्तं भोः !

<verse>भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।
आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥
</verse>

<speaker>वाली -</speaker> भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः ।

<speaker>रामः -</speaker> दण्डितस्त्वं हि दण्डड्यत्वाद्, अदण्डयो नैव दण्डवड्यते ।
३

<speaker>वाली-
</speaker>

</page>
<ignore>३२६
हन्त भोः !
अभिषेकनाटके
<verse>युक्तं भो ! नरपतिधर्ममास्थितेन
युद्धे मां छलयितुमक्रमेण राम ! ।
वीरेण व्यपगतधर्मसंशयेन
लोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥

हन्त भोः !

<verse>भवता सौम्यरूपेण यशसो भाजनेन च ।
छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥
[ i. 17. -

भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा
सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः ।

<speaker>रामः -</speaker> कथमधर्म्यः खलु प्रच्छन्नो वध इति ।
राम:-
३

<speaker>वाली -</speaker> कः संशयः ।

<speaker>रामः -</speaker> न खल्वेतत् । पश्य,
<verse>वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः ।
वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥

<speaker>वाली -</speaker> दण्

<speaker>रामः -</speaker> कः संशयः ।
३

<speaker>वाली -</speaker> केन कारणेन ।

<speaker>रामः -</speaker> अगम्यागमनेन ।

<speaker>वाली-</speaker> अगम्यागमनेनेति । एषोऽस्माकं धर्मः ।
६

<speaker>रामः -</speaker> ननु युक्तं भोः !
<verse>भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।
आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥

<speaker>वाली -</speaker> भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः ।

<speaker>रामः -</speaker> दण्डितस्त्वं हि दण्
३

<speaker>वाली-
</page>