2025-12-29 10:00:34 by ambuda-bot
This page has not been fully proofread.
३२६
हन्त भोः !
अभिषेकनाटके
युक्तं भो ! नरपतिधर्ममास्थितेन
युद्धे मां छलयितुमक्रमेण राम ! ।
वीरेण व्यपगतधर्मसंशयेन
लोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥
भवता सौम्यरूपेण यशसो भाजनेन च ।
छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥
[ i. 17. -
भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा
सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः ।
मः - कथमधर्म्यः खलु प्रच्छन्नो वध इति ।
राम:-
३ वाली - कः संशयः ।
रामः - न खल्वेतत् । पश्य,
वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः ।
वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥
वाली - दण्डय इति मां भवान् मन्यते ।
रामः - कः संशयः ।
३ वाली - केन कारणेन ।
रामः - अगम्यागमनेन ।
वाली- अगम्यागमनेनेति । एषोऽस्माकं धर्मः ।
६ रामः - ननु युक्तं भोः !
भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।
आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥
वाली - भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः ।
रामः - दण्डितस्त्वं हि दण्डयत्वाद्, अदण्डयो नैव दण्डवते ।
३ वाली-