2026-01-29 07:12:23 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>-i. 16.]
प्रथमोऽङ्कः ।
</ignore>

<speaker>राम: -</speaker> एष एष वाली,

<verse>सन्दष्टटोष्ठश्चण्डसंरक्तनेत्रो
मुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः ।
गर्जन् भीमं वानरो भाति युद्धे
संवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥
</verse>

<speaker>लक्ष्मणः -</speaker> सुग्रीवमपि पश्यत्वार्यः,

<verse>विकसितशतपत्ररक्तनेत्रः
कनकमयाङ्गदनद्धपीनबाहुः ।
हरिवरमुपयाति वानरत्वाद्
गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥
</verse>

वालिना ताडितः पतितः सुग्रीवः ।

<ignore>३२५
</ignore>

<speaker>हनुमान्-</speaker>हा ! धिक् । <stage>( ससम्भ्रमं राममुपगम्य )</stage> जयतु देवः । अस्यै-
३ पा
षावस्था ।

<ignore>1
</ignore>
<verse>बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।
अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥
</verse>

<speaker>रामः -</speaker> हनूमनन् ! अलमलं सम्भ्रमेण । एतदनुष्ठीयते । <stage>( शरं मुक्त्वा )
</stage>
हन्त पतितो वाली ।
३

<speaker>लक्ष्मणः -</speaker> एष एष वाली,

<verse>रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रः
कठिणविपुलबाहुः काललोकं विविक्षुः ।
अभिपतति कथञ्चिद् धीरमाकर्षमाणः
शरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥
</verse>

<speaker>वाली - </speaker> <stage>( मोहमुपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा
राममुद्दिश्य )
</stage>

</page>
<ignore>-i. 16.]
प्रथमोऽङ्कः ।

<speaker>राम: -</speaker> एष एष वाली,
<verse>सन्दष्
मुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः ।
गर्जन् भीमं वानरो भाति युद्धे
संवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥

<speaker>लक्ष्मणः -</speaker> सुग्रीवमपि पश्यत्वार्यः,
<verse>विकसितशतपत्ररक्तनेत्रः
कनकमयाङ्गदनद्धपीनबाहुः ।
हरिवरमुपयाति वानरत्वाद्
गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥

वालिना ताडितः पतितः सुग्रीवः ।
<ignore>३२५

<speaker>हनुमान्-</speaker>हा ! धिक् । <stage>( ससम्भ्रमं राममुपगम्य )</stage> जयतु देवः । अस्यै-
३ पा
षावस्था ।
<ignore>1
<verse>बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।
अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥

<speaker>रामः -</speaker> हनूम
हन्त पतितो वाली ।
३

<speaker>लक्ष्मणः -</speaker> एष एष वाली,
<verse>रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रः
कठिणविपुलबाहुः काललोकं विविक्षुः ।
अभिपतति कथञ्चिद् धीरमाकर्षमाणः
शरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥

<speaker>वाली -
राममुद्दिश्य )
</page>