2025-12-29 10:00:34 by ambuda-bot
This page has not been fully proofread.
-i. 16.]
प्रथमोऽङ्कः ।
राम: - एष एष वाली,
सन्दष्टष्ठचण्डसंरक्तनेत्रो
मुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः ।
गर्जन् भीमं वानरो भाति युद्धे
संवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥
लक्ष्मणः - सुग्रीवमपि पश्यत्वार्यः,
विकसितशतपत्ररक्तनेत्रः
कनकमयाङ्गदनद्धपीनबाहुः ।
हरिवरमुपयाति वानरत्वाद्
गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥
वालिना ताडितः पतितः सुग्रीवः ।
३२५
हनुमान्-हा ! धिक् । ( ससम्भ्रमं राममुपगम्य ) जयतु देवः । अस्यै-
३ पावस्था ।
1
बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।
अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥
रामः - हनूमन ! अलमलं सम्भ्रमेण । एतदनुष्ठीयते । ( शरं मुक्त्वा )
हन्त पतितो वाली ।
३ लक्ष्मणः - एष एष वाली,
रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रः
कठिणविपुलबाहुः काललोकं विविक्षुः ।
अभिपतति कथञ्चिद् धीरमाकर्षमाणः
शरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥
वाली - ( मोहमुपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा
राममुद्दिश्य )