This page has been fully proofread once and needs a second look.

<page>
<ignore>
३२४

अभिषेक नाटके

</ignore>
<verse>
शक्रो वा भवतु गतिः शशाङ्कवक्त्रे !

शत्रोर्मे निशितपरश्वधः शिवो वा ।

नालं मामभिमुखमेत्य सम्प्रहर्तुं

विष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥

</verse>
<ignore>
[i. 10.-

</ignore>

<speaker>
तारा -</speaker> पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं

दाव करेउं अरिहंह<ref>१</ref>दि महाराओ । <chaya>[ प्रसीदतु प्रसीदतु महाराजः ।

अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज: । ]

</chaya>

<speaker>
वाली -</speaker> श्रूयतां मत्पराक्रमः ।

<verse>
तारे ! मया खलु पुरामृतमन्थनेऽपि

गत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।

उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप-

माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥

</verse>

<speaker>
तारा-</speaker>पसीअउ पसीअउ महाराओ। <chaya>[ प्रसीदतु प्रसीदतु महाराज: । ]
</chaya>

<speaker>
वाली -</speaker> आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।

<speaker>
तारा -</speaker> एसा गच्छामि मन्दभाआ । <stage>( निष्क्रान्ता ) </stage> <chaya>[ एषा गच्छामि

मन्दभागा । ]

</chaya>

<speaker>
वाली -</speaker> हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि ।

<stage>
( द्रुतमुपगम्य)</stage> सुप्रीव ! तिष्ठ तिष्ठ ।

<verse>
इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः ।

इत इतः ।

मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥

</verse>

इत इतः ।

<speaker>
सुग्रीवः -</speaker> यदाज्ञापयति महाराज: ।

<stage>
(उभौ नियुद्धं कुरुतः । )

</stage>

<footnote>
१ अर्हदि ।

</footnote>
<ignore>

</ignore>
</page>