This page has not been fully proofread.

३२४
 
अभिषेक नाटके
 
शक्रो वा भवतु गतिः शशाङ्कवक्त्रे !
शत्रोर्मे निशितपरश्वधः शिवो वा ।
नालं मामभिमुखमेत्य सम्प्रहर्तुं
 
विष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥
 
[i. 10.-
 
तारा - पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं
दाव करेउ अरिहंदि महाराओ । [ प्रसीदतु प्रसीदतु महाराजः ।
अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज: । ]
 
वाली - श्रूयतां मत्पराक्रमः ।
 
तारे ! मया खलु पुरामृतमन्थनेऽपि
 
गत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।
उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप-
 
माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥
 
तारा-पसीअउ पसीअउ महाराओ। [ प्रसीदतु प्रसीदतु महाराज: । ]
वाली - आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।
३ तारा - एसा गच्छामि मन्दभाआ । ( निष्क्रान्ता ) [ एषा गच्छामि
मन्दभागा । ]
 
वाली - हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि ।
६ ( द्रुतमुपगम्य) सुप्रीव ! तिष्ठ तिष्ठ ।
 
इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः ।
 
इत इतः ।
 
मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥
 
सुग्रीवः - यदाज्ञापयति महाराज: ।
 
(उभौ नियुद्धं कुरुतः । )
 
१ अर्हदि ।