This page has been fully proofread once and needs a second look.

<page>
<ignore>
—i. 9.'' ]

प्रथमोऽङ्कः ।

</ignore>
<ignore>
३२३

</ignore>

<speaker>
लक्ष्मणः-</speaker> आर्य ! सोपस्नेहतया वनान्तरस्यामिभितः खलु किष्कि-

न्धया भवितव्यम् ।

<speaker>
सुग्रीवः -</speaker> सम्यगाह कुमारः ।

<verse>
सम्प्राप्ता हरिवर बाहुसम्प्रगुप्ता

किष्किन्धा तव नृप ! बाहुसम्प्रगुप्ता ।

तिष्ठ त्वं नृवर ! करोम्यहं विसंज्ञं

नादेन प्रचलमहीधरं नृलोकम् ॥ ७ ॥

</verse>

<speaker>
रामः -</speaker> भवतु, गच्छ ।

<speaker>
सुग्रीवः -</speaker> यदाज्ञापयति देवः । <stage>( परिक्रम्य )</stage> भोः !

<verse>
अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो ! ।

युद्धे त्वत्पादशुश्रूषां सुग्रीवः कर्तुमिच्छति ॥ ८ ॥
</verse>

<stage>
(नेपथ्ये )

</stage>

कथं कथं सुग्रीव इति ।

<stage>
( ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह । )
</stage>

<speaker>
वाली — </speaker>कथं कथं सुग्रीव इति ।

<verse>
तारे ! विमुञ्च मम वस्त्रमनिन्दिताङ्गि !

प्रस्रस्तवक्त्रनयने ! किमसि प्रवृत्ता ।

सुग्रीवमद्य समरे विनिपात्यमानं

तं पश्य शोणितपरिप्लुतसर्वगात्रम् ॥ ९ ॥

</verse>

<speaker>
तारा -</speaker> पसीअउ पसीअउ महाराओ । अप्पेण कारणेण ण आग-

मिस्सइ सुग्गीओ । ता अमञ्चवग्गेण सह सम्मन्तिअ गन्तव्वं ।

<chaya>
[ प्रसीदतु प्रसीदतु महाराजः । अल्पेन कारणेन नागमिष्यति सुग्रीवः ।

तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम् । ]

</chaya>

<speaker>
वाली-</speaker>आः,

<ignore>

</ignore>
</page>