This page has not been fully proofread.

—i. 9.' ]
 
प्रथमोऽङ्कः ।
 
३२३
 
लक्ष्मणः- आर्य ! सोपस्नेहतया वनान्तरस्यामितः खलु किष्कि-
 
न्धया भवितव्यम् ।
 
३ सुग्रीवः - सम्यगाह कुमारः ।
 
सम्प्राप्ता हरिवर बाहुसम्प्रगुप्ता
 
किष्किन्धा तव नृप ! बाहुसम्प्रगुप्ता ।
 
तिष्ठ त्वं नृवर ! करोम्यहं विसंज्ञं
नादेन प्रचलमहीधरं नृलोकम् ॥ ७ ॥
 
रामः - भवतु, गच्छ ।
 
सुग्रीवः - यदाज्ञापयति देवः । ( परिक्रम्य ) भोः !
अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो ! ।
युद्धे त्वत्पादशुश्रूषां सुग्रीवः कर्तुमिच्छति ॥ ८ ॥
(नेपथ्ये )
 
कथं कथं सुग्रीव इति ।
 
( ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह । )
वाली — कथं कथं सुग्रीव इति ।
 
तारे ! विमुच मम वस्त्रमनिन्दिताङ्गि !
 
प्रस्तवक्त्रनयने ! किमसि प्रवृत्ता ।
सुग्रीवमद्य समरे विनिपात्यमानं
 
तं पश्य शोणितपरिप्लुतसर्वगात्रम् ॥ ९ ॥
 
तारा - पसीअउ पसीअउ महाराओ । अप्पेण कारणेण ण आग-
मिस्सइ सुग्गीओ । ता अमञ्चवग्गेण सह सम्मन्तिअ गन्तव्वं ।
३ [ प्रसीदतु प्रसीदतु महाराजः । अल्पेन कारणेन नागमिष्यति सुग्रीवः ।
तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम् । ]
 
वाली-आः,