This page has been fully proofread once and needs a second look.

३२२

अभिषेक नाटके

[i. 2.3-

<page>

दाराभिमर्शन निर्विषयीकृतस्य सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य

सुग्रीवस्य च परस्परोपकारकृत प्रतिज्ञयोः सर्ववानराधिपतिं हेम-

मालिनं वालिनं हन्तुं समुद्योगः प्रवर्तते । तत एतौ हि,

<verse>
इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ ।

पुनः स्थापयितुं प्रामाप्ताविन्द्रं हरिहराविव ॥ ३ ॥
</verse>

<stage>
(निष्क्रान्तौ )

</stage>

<trailer>
स्थापना ।

</trailer>

<stage>
( ततः प्रविशति राम,मो लक्ष्मणसुग्रीवौ, हनुमांश्च । )

</stage>

<speaker>
राम: -</speaker> सुग्रीव ! इत इतः ।

<verse>
मत्सायकान्निहतभिन्नविकीर्णदेहं

शत्रुं तवाद्य सहसा भुवि पातयामि ।

राजन् ! भयं त्यज ममापि समीपवर्ती

दृष्ट
स्त्वया च समरे निहतः स वाली ॥ ४ ॥

</verse>

<speaker>
सुग्रीवः -</speaker> देव ! अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के,

किं पुनर्वानराणाम् । कुतः,

<verse>
मुक्तो देव ! तवाद्य वालिहृदयं भेत्तुं न मे संशयः

सालान् सप्त महावने हिमगिरेः शृङ्गोपमालीधर ! ।

भित्त्वा वेगवशात् प्रविश्य धरणीं गत्वा च नागालयं

मज्जन् वीर ! पयोनिधौ पुनरयं सम्प्राप्तवान् सायकः ॥ ५ ॥

</verse>

<speaker>
हनुमान्-

</speaker>

<verse>
तव नृप ! मुखनिःसृतैर्वचोभि-

र्
विगतभया हि वयं विनष्टशोकाः ।

रघुवर ! हरये जयं प्रदातुं

गिरिमभिगच्छ सनीरनीरदाभम् ॥ ६ ॥

</verse>
</page>