2026-01-29 06:57:36 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥
<title>भासनाटकचक्रे
<subtitle>अभिषेकनाटकम् ।
<p><stage>(नान्द्यन्ते ततः प्रविशति सूत्रधारः )
<verse><speaker>सूत्रधारः -</speaker>
यो गाधिपुत्रमखविघ्नकराभिहन्ता
युद्धे विराधखरदूषणवीर्यहन्ता ।
दर्पोद्यतोल्बणकबन्ध
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥
<p>एवमार्यमिश्रान् विज्ञापयामि । <stage>( परिक्रम्यावलोक्य)</stage> अये किन्नुखलु
मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
३
<p><stage>( नेपथ्ये )
<p>सुग्रीव ! इत इतः ।
<p><stage>( प्रविश्य )
६
<p><speaker>पारिपार्श्विकः-</speaker> भाव !
<verse>कुतोनुख
प्रवर्तते श्रोत्रविदारणो महान् ।
प्रचण्डवातोद्धतभीम
बलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥
<p merge-next="true"><speaker>सूत्रधारः -</speaker> मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनित-
सन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च,
<ignore>१
</page>