This page has not been fully proofread.

सूत्रधारः -
 
॥ eft: 11
 
भासनाटकचक्रे
 
अभिषेकनाटकम् ।
 
(नान्द्यन्ते ततः प्रविशति सूत्रधारः )
 
यो गाधिपुत्रमखविघ्नकराभिहन्ता
युद्धे विराधखरदूषणवीर्यहन्ता ।
दर्पोद्यतोल्बणकबन्ध कपीन्द्रहन्ता
 
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥
 
एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य) अये किन्नुखलु
मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
 

 
( नेपथ्ये )
 
सुग्रीव ! इत इतः ।
 
( प्रविश्य )
 
६ पारिपार्श्विकः- भाव !
 
कुतोनुखत्वेष समुत्थितो ध्वनिः
 
प्रवर्तते श्रोत्रविदारणो महान् ।
 
प्रचण्डवातोद्धतभीम गामिनां
 
बलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥
 
सूत्रधारः - मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनित-
सन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च,