This page has been fully proofread once and needs a second look.

<page>
<subtitle lang="sa">
श्रीगणेशाय नमः ।
</subtitle>
<subtitle>
भासनाटकचक्रे
 
</subtitle>
<title lang="sa">
चारुदत्तम्
 
</title>
<p lang="sa"><stage>
( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
 
</stage></p>
<p lang="sa"><speaker>
सूत्रधारः -</speaker> किण्णुखु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स

बुभुक्खाए पुक्खरपत्तपडिदजळ विन्दू विअ चञ्चलाळाअन्ति विअ

मे अक्खाणि । <stage>(परिक्रम्य )</stage> जाव गेहं गच्छिअ जाणामि किण्णुहु

संविधा विहिदा वेत्ति । <stage>( परिक्रम्य)</stage> एवं अम्हाणं गेहं । जाव

पविसामि । <stage>( प्रविश्यावलोक्य)</stage> जह कोळोहीपरिवट्टणकाळसारा भूमी,
 

णेउब्
भामणसुगन्धो विअ गन्धो, सुणिमित्तं विअ परिब्भमन्तो

वडिवस्सअजणो, किष्ण्णुखु संविधा विहिदा । आदु बुभुक्खाए

ओदणमअं विअ जीवळोअं पेक्खामि । जाव अय्यं सद्दावेमि ।

अय्ये ! इदो दा । <chaya>[ किन्नुखल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य

बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव मेsक्षिणी ।
१२

यावद् गेहं गत्वा जानामि किन्नुखलु संविधा विहिता न वेति ।

एतदस्माकं गेहम् । यावत् प्रविशामि । यथा लौहीपरिवर्तनकालसारा
 
'
 

भूमिः, स्नेोनेहोद्भावनसुगन्ध इव गन्धः, सुनिमित्तमिव परिभ्रमन् वरि-
१५

वस्यकजनः, किन्नुखलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव

जीवलोकं पश्यामि । यावदार्यां शब्दापयामि । आयें ! इतस्तावत् । ]
</chaya></p>
<p><speaker>
नटी - </speaker>अय्य! इअम्हि । अय्य! दिट्टिआ खु सि आअदो । <chaya>[आर्य !
१८

इयमस्मि । आर्य ! दिष्टया खल्वस्यागतः । ]
 
</chaya></p>
<p lang="sa"><speaker>
सूत्रधारः -</speaker> अय्ये ! किं अत्थि अम्हाणं गेहे को वि पादरासो ।

<chaya>
[ आयें ! किमस्त्यस्माकं गेहे कोऽपि प्रातराशः । ]
 

 
</chaya></p>
</page>