This page has not been fully proofread.

श्रीगणेशाय नमः ।
भासनाटकचक्रे
 
चारुदत्तम्
 
( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
 
सूत्रधारः - किण्णुखु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स
३ बुभुक्खाए पुक्खरपत्तपडिदजळ विन्दू विअ चञ्चलाअन्ति विअ
मे अक्खाणि । (परिक्रम्य ) जाव गेहं गच्छिअ जाणामि किण्णुहु
संविधा विहिदा वेत्ति । ( परिक्रम्य) एवं अम्हाणं गेहं । जाव
६ पविसामि । ( प्रविश्यावलोक्य) जह कोहीपरिवट्टणकाळसारा भूमी,
 
भामणसुगन्धो विअ गन्धो, सुणिमित्तं विअ परिभमन्तो
वडिवस्सअजणो, किष्णुखु संविधा विहिदा । आदु बुभुक्खाए
९ ओदणमअं विअ जीवळोअं पेक्खामि । जाव अय्यं सद्दावेमि ।
अय्ये ! इदो दा । [ किन्नुखल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य
बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव मेsक्षिणी ।
१२ यावद् गेहं गत्वा जानामि किन्नुखलु संविधा विहिता न वेति ।
एतदस्माकं गेहम् । यावत् प्रविशामि । यथा लौहीपरिवर्तनकालसारा
 
'
 
भूमिः स्नेोद्भावनसुगन्ध इव गन्धः, सुनिमित्तमिव परिभ्रमन् वरि-
१५ वस्यकजनः, किन्नुखलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव
जीवलोकं पश्यामि । यावदाय शब्दापयामि । आयें ! इतस्तावत् । ]
नटी - अय्य! इअम्हि । अय्य! दिट्टिआ खुसि आअदो । [आर्य !
१८ इयमस्मि । आर्य ! दिष्टया खल्वस्यागतः । ]
 
सूत्रधारः - अय्ये ! किं अत्थि अम्हाणं गेहे को वि पादरासो ।
[ आयें ! किमस्त्यस्माकं गेहे कोऽपि प्रातराशः । ]