This page has not been fully proofread.

स्वप्नवासवदत्ते
 
प्रद्वेषो बहुमानो वा संकल्पादुपजायते ।
 
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ ७ ॥
 
[i. 7-
 
वासवदत्ता–( स्वगतम् । ) राअदारिअत्ति सुणिअ भइणिआसि-
वि मे एत्थ सम्पज्जइ ॥ [ राजदारिकेति श्रुत्वा भगिनिकास्ने हो -
 
३ ऽपि मेऽत्र संपद्यते । ]
 
( ततः प्रविशति पद्मावती सपरिवारा चेटी च । )
 
चेटी - एदु एदु भट्टिदारिआ, इदं अस्समपदं, पविसदु ॥ [ वेतु
६ भर्तृदारिका, इदमाश्रमपदम् प्रविशतु । ]
 
(ततः प्रविशत्युपविष्टा तापसी । )
 
तापसी-साअदं राअदारिआए ॥ [ स्वागतं राजदारिकाया: । ]
९ वासवदत्ता–( स्वगतम् । ) इअं सा राअदारिआ । अभिजणाणुरुवं
खु से रूवं ॥ [इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम्। ]
पद्मावती - अय्ये ! वन्दामि ॥ [ आयें ! वन्दे । ]
 
१२ तापसी - चिरं जीव । पविस जादे ! पविस । तवोवणाणि णाम
अदिहिजणस्स अगेहं ॥ [ चिरं जीव । प्रविश जाते ! प्रविश ।
तपोवनानि नामातिथिजनस्य स्वगेहम् । ]
 
१५ पद्मावती - भोदु भोदु । अय्ये ! विस्सत्थम्हि । इमिणा बहुमानवअ
ण अणुग्गदिहि ॥ [ भवतु भवतु । आयें ! विश्वस्तास्म । अनेन
बहुमानवचनेनानुगृहीतास्मि । ]
 
१८ वासवदत्ता-( स्वगतम् । ) ण हि रूवं एव्व, वाआ विखु से महुरा ॥
[ न हि रूपमेव, वागपि खल्वस्या मधुरा । ]
 
तापसी- भद्दे ! इमं दाव भद्दमुहस्य भइणिअं कोचि राआण
२१ वरेदि ॥ [ भद्रे ! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा
न वरयति । ]