यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसारस्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः। तत्ते पाथः पवनजनितोत्तालकल्लोलजालं ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन॥४१॥ निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः। किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः॥४२॥ नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनैर्नि:स्यन्दै: सह वालवालवलये युक्तो निषेकक्रमः। आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः॥४३॥ केलिं कल्पय कोल[^२]बाल लवलीवल्लीदलान्याहरनुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्। म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चित: पञ्चतां युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः॥४४॥ कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुन्द्रितं यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः। तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुराभङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः॥४५॥ खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः। हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥ नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाञ्जलौ (३३।६) जगद्धरः 'नासीरं धनसारः' इति तट्टीकायां रत्नकण्ठः.
सूकरशिशो. त्वम्.