2025-12-15 03:21:43 by akprasad
This page has been fully proofread twice.
<page>
<verse text="A" n="17">चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका-
न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु।
एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः
प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः॥१७॥
</verse>
<verse text="A" n="18">उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः
सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः।
एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं
तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः॥१८॥
</verse>
<verse text="A" n="19">शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः
पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः।
एवं का गणना तवाद्य हि रतावद्योतखद्योत हे।
दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः॥१९॥
</verse>
<verse text="A" n="20">अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते
तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः।
एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते
गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः॥२०॥
</verse>
<verse text="A" n="21">आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो
लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।
देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते
शङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥
</verse>
<verse text="A" n="22">कुन्दे दलितादरः सरसिजे संजातकौतूहल:
कल्हार कलितस्पृहः किमपरं यः केतके कौतुकी।
निर्माता किममर्त्यराजतरुणी लीलावतंसश्रियो
योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः॥२२॥
</verse>
<verse text="A" n="23" merge-next="true">शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः
कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः।
</verse>
</page>