2025-12-15 03:21:43 by akprasad
This page has been fully proofread twice.
<page>
<subtitle>महाकविश्रीशुंभविरचिता
</subtitle>
<title>अन्योक्तिमुक्तालता
</title>
<verse text="A" n="1">मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा
मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः।
प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु-
र्बन्धूकप्रियबान्धवो धवलित[^२]श्यामाधवो माधवः॥१॥
</verse>
<verse text="A" n="2">हेलाक्रान्त[^३]हरिन्ति कुन्तलवधूवेणीहरिन्ति[^४] स्फुटं
भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः।
पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-
रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥
</verse>
<verse text="A" n="3">सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे
संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।
यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-
लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥
[^</verse>
<footnote text="A" mark="१] ">अस्माच्छ्लोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम्।
यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तकेषु
तु न प्रोक्तः.
[^</footnote>
<footnote text="A" mark="२] ">मेघराहित्यादुज्ज्वलीकृतचन्द्रः.
[^</footnote>
<footnote text="A" mark="३] ">हेलयाक्रान्तदिङमण्डलानि.
[^</footnote>
<footnote text="A" mark="४] ">श्या-मवर्णानि.
[^</footnote>
<footnote text="A" mark="५] ">आरम्भम्. 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी-
यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.
[^</footnote>
<footnote text="A" mark="६] ">समीचीनानि.
</footnote>
</page>
<subtitle>महाकविश्रीशुंभविरचिता
<title>अन्योक्तिमुक्तालता
<verse text="A" n="1">मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा
मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः।
प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु-
र्बन्धूकप्रियबान्धवो धवलित[^२]श्यामाधवो माधवः॥१॥
<verse text="A" n="2">हेलाक्रान्त[^३]हरिन्ति कुन्तलवधूवेणीहरिन्ति[^४] स्फुटं
भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः।
पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-
रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥
<verse text="A" n="3">सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे
संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।
यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-
लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥
[^
<footnote text="A" mark="१
यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तकेषु
तु न प्रोक्तः.
[^
<footnote text="A" mark="२
[^
<footnote text="A" mark="३
[^
<footnote text="A" mark="४
[^
<footnote text="A" mark="५
यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.
[^
<footnote text="A" mark="६
</page>