2025-12-15 03:21:43 by akprasad
This page has been fully proofread twice.
<page>
<verse text="A" n="78">हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं
वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः।
किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः
सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः॥७८॥
</verse>
<verse text="A" n="79">लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते
निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह।
कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
छाया सैव स एव सौरभभरस्ता एव पुष्पश्रिय:॥७९॥
</verse>
<verse text="A" n="80">कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे।
दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
हेलैव प्लवग[^१]प्रभोः कृतजगत्पारिप्लवो विप्लव:॥८०॥
</verse>
<verse text="A" n="81">मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
चूडामूले सितकरकले कल्पितोऽयं निवासः।
यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं
तत्रोन्मीलद्बकुलकलिकाकोमलं तान्तिमेति॥८१॥
</verse>
<verse text="A" n="82">वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं
दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्।
तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-
प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः॥८२॥
</verse>
<verse text="A" n="83">कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-
मूर्वीमेष बिभर्ति[^२] सागरसरिद्गर्वी गिरिग्रामणीः।
लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः॥८३॥
</verse>
<verse text="A" n="84" merge-next="true">लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः।
[^</verse>
<footnote text="A" mark="१] ">हनुमतः.
[^</footnote>
<footnote text="A" mark="२] ">महीधरत्वात्.
</footnote>
</page>
<verse text="A" n="78">हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं
वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः।
किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः
सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः॥७८॥
<verse text="A" n="79">लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते
निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह।
कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
छाया सैव स एव सौरभभरस्ता एव पुष्पश्रिय:॥७९॥
<verse text="A" n="80">कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे।
दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
हेलैव प्लवग[^१]प्रभोः कृतजगत्पारिप्लवो विप्लव:॥८०॥
<verse text="A" n="81">मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
चूडामूले सितकरकले कल्पितोऽयं निवासः।
यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं
तत्रोन्मीलद्बकुलकलिकाकोमलं तान्तिमेति॥८१॥
<verse text="A" n="82">वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं
दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्।
तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-
प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः॥८२॥
<verse text="A" n="83">कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-
मूर्वीमेष बिभर्ति[^२] सागरसरिद्गर्वी गिरिग्रामणीः।
लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः॥८३॥
<verse text="A" n="84" merge-next="true">लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः।
[^
<footnote text="A" mark="१
[^
<footnote text="A" mark="२
</page>