2025-12-15 03:21:43 by akprasad
This page has been fully proofread once and needs a second look.
<verse text="A" n="71">शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-
स्तैर्मल्ली मुकुलैरमीलि दहनक्लान्ते वनान्ते यतः॥७१॥
<verse text="A" n="72">कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं
निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः।
सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा
पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः॥७२॥
<verse text="A" n="73">येन प्राप्तः सुरभितककुष्कंदरः कोऽप्युदारो
मन्दारोऽपि भ्रमररमणीदत्तरागः परागः।
स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-
दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत्॥७३॥
<verse text="A" n="74">यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि
न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः।
एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना
निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः॥७४॥
<verse text="A" n="75">दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं
प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत्।
सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा
साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः॥७५॥
<verse text="A" n="76">बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः
कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः।
तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति-
स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः॥७६॥
<verse text="A" n="77">मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः।
स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः॥७७॥
</page>