2025-12-15 03:21:43 by akprasad
This page has been fully proofread once and needs a second look.
<verse text="A" n="59">यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के
येन स्थाणोरुरसि रहितो हारवल्लीविलासः॥५९॥
<verse text="A" n="60">यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै-
रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति।
तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः
सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः॥६०॥
<verse text="A" n="61">द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः
क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः।
उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि
प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः॥६१॥
<verse text="A" n="62">चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं
सङ्गं दूरीकुरु कुरबके केतके मा निषीद।
लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-
र्यत्ते दैवात्परिसरगतः पारिजातः स जातः॥६२॥
<verse text="A" n="63">पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-
च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः।
माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते
तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः॥६३॥
<verse text="A" n="64">ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः
पाथो[^१]धाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः।
यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-
त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः॥६४॥
<verse text="A" n="65" merge-next="true">ये तावन्ति पयः[^२] पृषन्ति जलदादत्यन्तमुत्कण्ठिता
याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः।
[^
<footnote text="A" mark="१
[^
<footnote text="A" mark="२
</page>