This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="53">
कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति

प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत्।

तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं

कंदर्पैकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥५
 
३॥</verse>
<verse text="A" n="54">
कंदर्पैककृपाणवल्लरि वने कमादकस्मादियं

हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः।

सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः

कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः॥५४॥
 
</verse>
<verse text="A" n="55">
लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः

कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः।

सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो

हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति॥५५॥
 
</verse>
<verse text="A" n="56">
ऊढापि द्यु[^१]तरङ्गिणि त्रिजगतीवन्द्येन तेनाप्य[^२]हो

मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते।

तारक्षारकरं करालमकरं सश्वभ्रमभ्रकषं

मुग्धे जाड्यनिधिं मुघा जलनिधिं यातासि चित्राः स्त्रियः॥५६॥
 
</verse>
<verse text="A" n="57">
नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं

कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः।

पाने मज्जनकर्मनर्मणि तथा बाह्यैरलं वारिधे

कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः॥५७॥
 
</verse>
<verse text="A" n="58">
कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां

यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः।

अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः

पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः॥५८॥
 
</verse>
<verse text="A" n="59" merge-next="true">
एतैर्जातै: किमिह बहुभिर्भोगिभि: किं तु मन्ये

मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
 
[^
</verse>
<footnote text="A" mark="
] ">हे गङ्गे.

[^२] शिवेन.
</footnote>
</page>