2025-12-15 03:21:43 by akprasad
This page has been fully proofread once and needs a second look.
<verse text="A" n="41">यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार-
स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः।
तत्ते पाथः पवनजनितोत्तालकल्लोलजालं
ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन॥४१॥
<verse text="A" n="42">निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः
संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः।
किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते
किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः॥४२॥
<verse text="A" n="43">नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै-
र्नि:स्यन्दै: सह वालवालवलये युक्तो निषेकक्रमः।
आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः
संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः॥४३॥
<verse text="A" n="44">केलिं कल्पय कोल[^२]बाल लवलीवल्लीदलान्याहर-
नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्।
म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चित: पञ्चतां
युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः॥४४॥
<verse text="A" n="45">कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुन्द्रितं
यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः।
तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-
भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः॥४५॥
<verse text="A" n="46">खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते
पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः।
हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि
भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥
[^
<p n="१
मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाञ्जलौ (३३।६) जगद्धरः 'नासीरं धनसारः'
इति तट्टीकायां रत्नकण्ठः.
[^
<footnote text="A" mark="२
[^
<footnote text="A" mark="३
</page>