This page has been fully proofread twice.

<page>
<verse text="A" n="29">
किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता

वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:।

चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे

यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥
 
 
</verse>
<verse text="A" n="30">
नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं

नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते।

चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं

किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥
 
 
</verse>
<verse text="A" n="31">
अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः

प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः।

तत्ते कालं कतिपयमयं भाति खद्योतपोतं

द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥
 
 
</verse>
<verse text="A" n="32">
पुष्पोत्करेषु च फलेषु च सावलेप-

स्त्वं कन्दलेषु च दलेषु च सावहेल:।

किं मुग्ध दग्धमकरोः सुरभेरगार-

मङ्गारकार सहकारमकारणेन॥३२॥
 
 
</verse>
<verse text="A" n="33">
याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे

मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः।

तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका

तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥
 
 
</verse>
<verse text="A" n="34">
लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै-

रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः।

प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं

गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥
 
[^
</verse>
<footnote text="A" mark="
] ">सुन्दरम्.
</footnote>
</page>