This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
66
 
६३
 
" Fair girl! " " Well, my lord ; "Cast aside thy
resentment, oh sulky one ! " "What have I done in my
resentment? " "It has made me troubled. " "Thou hast
done me no wrong ; all sins are mine. " Why dost thou
weep with a sobbing voice ?" " Before whom do I weep ?
Well, before me. "What am I to thee?" " Beloved. "
I am not, that is why I weep. (50)
 
68
 
23
 
"
 
"
 
बाले मुग्धे । नाथ स्वामिन् । हे मानिनि कोपने रुषं कोपं विमुञ्च त्यज ।
मया रोषात् कोपात्किं कृतं किमाचरितम् । अस्मासु खेदः क्लेशः कृत इति
शेषः । भवान् मे मह्यं नापराध्यति न गृह्यति कुधद्रुयसूयानां यं प्रति
कोप इति चतुर्थी । मयि सर्वे सकला अपराधाः द्रोहांः सन्ति । तत् तस्मा-
द्धेतोः किं गद्देन स्खलितेन वचसा वचनेन रोदिषि रोदनं
करोषि । कस्याग्रस्तः पुरः रुद्यते रोदनं क्रियते । एतन्ममाग्रतः इदं रोदनं
क्रियते खलु । ननु तवाहं कास्मि । दयिता प्रिया भवसि । नास्मीति न
भवामीत्यतः कारणाद्रुद्यते इति संबन्ध: । अत्रं प्रगल्भायां नायिकायां बाले
इत्यामन्त्रणं नायकेन वक्रोक्त्या कृतं तथापि तज्ज्ञात्वा तथैव वक्रोक्त्या प्रियतमं
प्रति नाथ इत्यामन्त्रणं कृतम् । ततस्तेनार्जवमवलम्ब्य मानिनि रुषं मुञ्च
इत्यनुनयः कृतः । ततस्तया वक्रोक्त्यैव रोषान्मया किं कृतमित्युत्तरं दत्तम् ।
ततस्तेन अस्मासु खेदः कृत इत्युक्तम् । ततस्तया अपराधिनि खलु खेदः
क्रियते भवान् मे नापराध्यति कुतः खेदः क्रियते इति विपरीतलक्षणया भवानप-
राधी खेदः कथं न कर्तव्य इस्ययमर्थः सूचितः । ततस्तेन सर्वेऽपराधा
मयि इत्यपराधाङ्गीकारेण रुषं मुञ्चेत्यनुनयः प्रकटीकृतः । ततस्तया तस्य
रोषयामोचनात् किं कृतमित्युक्तम् । ततस्तेन गद्गदेन वचसा रोदिषि इत्यनेन
किं न कृतं खेदमूलं रोदनं करोषीत्युक्तम् । ततस्तया कस्याग्रतो रुद्यत
इत्यनेन सबन्धवतः खलु रोदनं खेदमूलम् । त्वं मम को भवसि इत्युक्तम् ।
ततस्तेन तस्या वक्रोक्त्याभिप्रायं विहाय वाक्यस्य वाच्यार्थमेव स्वीकृत्य ननु
एतन्ममाग्रतो रुद्यते इत्युत्तरं दत्तम् । ततस्तया पुरतो रोदितुं अह तव
कास्मीत्युक्तम् । ततस्तेन मम त्वं दयितेत्युक्तम् । ततस्तया ते तव दयितैव
नास्मीत्यतः कारणात् मया रुद्यत इत्युक्तमित्यवगन्तव्यम् । अत्र नायिका
स्वीया धीराधीरप्रगल्भा च । किं च खण्डिता । यथोक्तं भारतीये -