This page has not been fully proofread.

५८
 
अमरुशतकम
 
कुत इत्येवं प्राणेश्वरे प्रियतमे अनुयुञ्जति सति तन्व्या कान्तया इदं सब
स्वभावतो निसर्गादिति व्याहृत्य उक्त्वा वलितया निवृत्तया तया निश्वस्य
निश्वासं कृत्वा पक्ष्मान्तरव्यापी पक्ष्मणामक्षिलोम्नामन्तरं मध्यं व्याप्नोतीति
पक्ष्मान्तरव्यापी बाप्पभरो अश्रुपूरः अन्यतः इतरत्र मुक्तः विसृष्ट इति
संबन्धः । अत्र नायके कार्यान्तरव्यासङ्गेन चिरयित्वा समागत्य तनुत्वादिकं
स्वस्यानागमनादिति जानत्यपि कुत इति पृच्छति सत्यार्जवेन वक्तुमसहमानया
नायिकया सर्वमिदं स्वभावत इति वक्रोक्त्या निर्वेदः सूचितः । बाप्पभरो
भुक्तोऽन्यत इत्यनेन दैन्यसंवरणं सूचितम् । नायिका स्वीया मध्य च । किंच
विरहोत्कण्ठिता । यथोक्तं भारतीये - अनेककार्यव्यासङ्गाद् यस्या नागच्छति
प्रियः । कामतः सैव दुःखार्ता विरहोत्कण्ठिता मता ॥ अस्यास्तनुत्वं कम्पश्च
पाण्डुता बाष्पनिर्गमः । निर्वेदश्वासदैन्याद्या अनुभावा मवन्त्यमीति ॥ दैन्यं
नाम संचारी भावः । नायकोऽनुकूलः । प्रणयमानकृतो विप्रलम्भशृङ्गारः ।
अत्र मानकृतं वाग्रूपं शृङ्गारि नर्म । जातिरलंकारः ।
 
( १ ) D, पाण्डुगण्डस्थलं ( २ ) D, D2, D, अनुनयं जाते सति ;
D, अनुनयं प्रयुञ्जति सति ; D, Bm, Mg इति प्राणेश्वरे पृच्छति ; Mt
पृच्छति सानुनयं पृच्छमाने सति ( ३ ) D3 adds करुणातिशयेन ( ४ ) Mt
दैन्यं सूचितं ( ५ ) Bm मुग्धा
 
कवेर्वाक्यम्—
 
रात्रौ वारिभरालस।म्वुदरवोद्विग्नेन जाताश्रुणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।
आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तन
 
मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तां यथा ॥ ४६ ॥
 
(b) Oa तदुत्कण्ठया ; Bm तदोत्कण्ठया (c) T
 

 
• हारिणा प्र०
 
A traveller, frightened at the thunder of a cloud moving
slowly owing to the burden of water, sang in the night, with
tears in his eyes, a song betraying the sorrow of his heart at
severance from his love in such a sad tone, that the people