2025-04-20 14:32:19 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
५७
लपति सति स्फारितं विस्तारितं संश्लिष्यत्यालिङ्गति सति अरुणं रक्तं
गृहीतवसने आकृष्टबाससि सति संकुचितभ्रूलतं संकुञ्चिता भुना भ्रूलता
यस्य तत्तथोक्तम् । चरणानतिव्यतिकरे सति आनतेः प्रणामस्य व्यतिकरः
संबन्धः चरणयोः पादयोः आनतिव्यतिकरो यस्य तत्तथोक्तः तस्मिन् ।
बाष्पाम्बुपूर्णे अश्रुजभरितं मानिन्या मानवत्याश्चक्षुर्नयनं क्षणादल्पकाला-
त्प्रपञ्चचतुरं प्रपञ्चेन औत्सुक्यादिबहुप्रकारेण चतुरं मनोहरं जातं संपन्नमहो
आश्चर्यमिति संबन्धः । अत्रौत्सुक्य स्वाभाविकप्रेमातिशयेन । विवलितत्वम-
पराधिन द्रष्टुं असमानतया । स्फारितत्वं क्रोधातिशयेन । अरुणत्वं क्रोध-
वृद्धया भ्रूलतसिंकोचः क्रोधातिशयेन वाष्पाम्बुपूर्णत्वं क्रोधशान्त्या इति
वेदितव्यम् । अल नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । नायकः शठः ।
मानकृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । जातिरलंकारः ।
( १ ) D, संकुचितभ्रूलतं ( २ ) D. • जलपूर्ण ( ३ ) D,,D2, D.,,
क्रोधोदयेन ; Mg कोपोदयेन ( ४ ) DDs भ्रूलतासंकुचितत्वं
कवेवक्यम्
अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात्कुतो
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।
तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर-
व्यापी बाष्पभरस्तया वलितया निश्वस्य मुक्तोऽन्यतः ॥४५॥
( a ) D, कस्मादिदं ; T तस्मात्कुतो
Whence this exceedingly great leanness of limbs, whence
this tremor ? Whence, Oh simple one, this countenance
with the wan cheeks? On these questions of the lord of
her life, the slender one replied, All this has come off of
itself," and turning away, she heaved sighs, and discharged
elsewhere the burden of tears that filled her eyelashes. (45)
66
हे मुग्धे अङ्गानामवयवानामिदमतितानवं अतिकायै कुतः कस्माद्धेतोः ।
अयं कम्पश्च ते वेपथुः कस्मात् । इदमाननं मुखं पाण्डुकपोलं च पाण्डुगण्ड