This page has not been fully proofread.

५६
 
अमरुशतकम्
 
प्रियस्य पुरः अग्रतः तावन्त्येव पदानि द्रुततरं अतिशीघ्रं व्याहृत्य उच्चार्य परतः
ततःपरं मनसिजस्य मन्मथस्य इच्छाकाङ्क्षा यथा तथा वर्तितुं प्रारब्धा प्रक्रान्ता ।
मौग्ध्यविभूषणस्य मौग्ध्यमप्रागल्भ्यं विभूषणं यस्य तत्तथोक्तम् । तस्य प्रेम्णः
प्रणयस्य एष सहजः स्वाभाविकः कान्तो मनोहरः कोऽपि क्रमः कश्वन
प्रकारः इति संबन्धः । अत्राभिप्रायो व्यक्त एव । नायिका स्वीया मुग्धा
च । नायकः शठः । सम्भोगगृङ्गारः । अत्र सङ्गेच्छारूपं शृङ्गारि नर्म ।
जातिरलंकारः ।
 
( १ ) D, उपदेशिताः ( २ ) Bm, Mg मौदय ०
प्रियत्वस्य ( ४ ) D रम्य: ( ५ ) Bm, Mg मध्या
 
कवेर्वाक्यम् -
 
( ३ ) Mt
 
दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं
संलिप्यत्यरुणं गृहीतवसने संकुचितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्ण क्षणच्.
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४४ ॥
 
संकुचितभ्र ० ;
 
D2D9, Mg,
 
(a ) D, विलुलितं संभाषिता स्फारितं (b) Do
D. कोपाञ्चितभ्रूलतं; Bm किंचाश्चितभ्रूलतम्;
O, T, U, Oa, S संकोचितभ्रूलतम् ( c D2, Bm, Mg बाप्पाम्बुपूर्ण
क्षणात्; D, बाप्पाम्बुपूर्णेक्षणं; D, बाप्पाम्बुभिर्वीक्षणं
 
Ah! how when the lover is faithless, the eye has
become an adept in the art of assuming manifold forms!
When he is still far away, it glances most wistfully; when
he arrives, it turns itself aside ; when he talks, it dilates ;
when he embraces, it becomes red; when he seizes her
garment, it contracts the lines of its brow; and when he
contrives to fall at the feet of the angry lady, it fills itselt
with the moisture of tears ! (44)
 
जातागसि कृतापराधे प्रेयसि प्रियतमे दूरात् स्थिते सतीति शेषः ।
उत्सुकमुत्कण्ठितम् । आगते प्राप्ते सति विवलितं विवर्तितम् । संभाषिण्या-