This page has not been fully proofread.

शृङ्गारदी पिकाव्याख्योपेतम्
 
५५
 
प्रणतिं प्रणाममाशङ्कय उत्प्रेक्ष्य एष प्रणामं करिष्यतीत्याशङ्कयेत्यर्थः ।
आदराद् बहुमानात् पादौ चरणौ पटान्तपिहितौ चैलाञ्चलाच्छादितौ करोति ।
आगतमुद्गतं हसितं हास्यं व्याजेन केनापि च्छद्मना आवृणोति प्रच्छादयति ।
स्पष्टं व्यक्तं नोद्वीक्षते नालोकयति । मय्यालापवति भाषमाणे सति प्रतीपवेचना
प्रतिकूलवाक्सती सख्या वयस्यया समं सार्धं भाषते आलपति । तन्व्याः
कान्तायाः निर्भरप्रणयिता प्रणयस्य भावः प्रणयिता निर्भरा चासौ प्रणयिता च
निर्भरप्रणयिता । त्वतैलोर्गुणवचनस्येति पुंवद्भावः । तिष्ठतु आस्ताम् । मानोऽपि
ईर्ष्याकोपोऽपि रम्योदयः मनोहरोद्गम इति संबन्धः । स्पष्ट एवाभिप्रायः ।
स्वीया प्रगल्भा च नायिका । नायकः शठः । मानकृतो विप्रलम्भगृङ्गारः
मानकृतं चेष्टारूपं नर्म । जातिरलंकारः ।
 
( १ ) D3 प्रतीपवचनात् प्रतिकूलवाक्यात् ( २ ) D2, D3 प्रणयिन्या
भावः प्रणयिता ( ३ ) D, Bm drop the sentence त्वतलोर्गुण'
( ४ ) Mg अत्र नायिका स्वीया मध्या च
 
कवेर्वाक्यम् -
 
सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता
 
तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।
प्रारब्धा परतो यथा मनसिजस्येच्छा तथा वर्तितुं
 
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ ४३ ॥
 
(b) Oa, S कृतागसो ऽद्भुततरं
 
पुरतो (d) Bm, Mg . मौध्यविभूषणस्य
 
(c) D, प्रारब्धं; D प्रारेभे
 
After she had uttered very hurriedly, before her offend-
ing lord, whatever words her cunning friends had taught
her, she began presently to behave as the God of love
required her to do: such is the unique way of love, so
natural and charming, with sweet innocence as its
ornament ! (43)
 
सा नायिका अलीकवचनैमिथ्याभाषितैरालीजनैः सस्त्रीजनैः यावन्ति
पदानि यावन्तः शब्दाः पाठिता ओगमिता कृतागसः कृतापराधस्य पत्युः