2025-04-20 14:32:18 by ambuda-bot
This page has not been fully proofread.
५४
अमरुशतकम्
गृहागतः प्रियो मया (निष्कारणं ) अवधीरितः सोऽवश्यं त्वया इदानी-
मेवानेतव्यः । नो चेत् क्षणमपि जीवितं धारयितुं न शक्नोमीत्येवंरूपं वचन -
मित्यवगन्तव्यम् । हे मुग्धे मूढे एतत्कार्ये अतितरां अत्यर्थं दुष्करं दुर्घट-
मित्युक्त्वा ततः सहासं हासेन सहितं यथा भवति तथा बलात् प्रसह्य
आलिङ्गय तेन कितवेन धूर्तेन अद्य अस्मिन् दिने प्रदोषागमे । प्रदोषो
रजनीः मुखमित्यमरः । तस्यागमः प्राप्तिः तस्मिन् छलिता वञ्चितास्मीति
संबन्ध । स्पष्ट एवाभिप्रायः । अत्र नायिका स्वीया मध्या च । किं च
कलहान्तरिता । नायकः शठः संभोगगृङ्गारः । अत्र
नर्मगर्भः ।
युक्तिरलंकारः ।
( १ ) D explains प्रियसंपर्कविषयिकवाञ्छया ( २ ) found in
D, only _ ( ३ ) Ds,Mg एषः एतत्कार्ये अतितरां अत्यर्थे दुष्करः दुर्घटः
इत्युक्त्वा ( ४ ) D. मुग्धा ( ५ ) D, Ds, Bm, Mg, Mt drop
किं च कलहान्तरिता
नायकोक्तिः-
आशङ्कय प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद्
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचना सख्या समं भाषते
तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४२ ॥
(b ) Dg व्याजेनेङ्गितमावृणोति हसितं साकूतमुद्वीक्षते ; Bm नो
स्पष्टमुद्वीक्षते (c) D, प्रतीपवचनात्; D प्रतीपवचनं (d) s रम्यक्रमः
Expecting that I would fall at her feet she carefully
covers them up with the hem of her garment; she conceals
the smile upon her face under some pretext, and does not
look me in the face; when I talk to her, being averse to
talking (to me ), she engages her friend in conversation:
let alone her ardent love, even this anger of the slender
one, as it rises within her, is so sweet ! (42)