This page has not been fully proofread.

शृङ्गारदी पिकाव्याख्योपेतम्
 
५३
 
अत्यादराद् दृष्टिः हर्षोदयात् अत्यंत स्मितं च सात्विकस्वेदोदयश्च वृद्धिश्च
अवयवबृंहणं च जातमित्यवगम्यते । स्वैरेवावयवैर्मङ्गलं कृतं ः इत्यनेन स्वावयवान्
पश्यतो नायकस्यापि अत्यानन्दश्च जात इति भावः । ) अत्र हर्षो नाम
संचारी भावः । स्वीया मध्या च नायिका । नायकोऽनुकूलः । प्रवासानन्तरं
संभोगशृगारः । चेष्टाकृतं आत्मोपक्षेपरूपं शृङ्गारि नर्म । रूपकालंकारः ।
 
(१) D1,D2, D,,De,Mg प्रक्षेपणं ( २ ) D,D,De अर्घः; ; D, अर्ध्य
( ३ ) D. अवतीर्णः ; D.D2,D, विकीर्णः; D, दत्तं वितीर्णम्
( ५ ) This is given by Ds only
 
कल्याणाचरणं
 
( ४ ) Da
( ६ ) Bm जातिरलंकारः
 
धूर्तेन नायकेन कृतां वञ्चनां नायिका सख्यै निवेदयति
कान्ते सागसि यापिते प्रियसखीवेषं विधायागते
 
-
 
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया ।
मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बला-
 
दालिङ्ग्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४१ ॥
(b ) S तत्सङ्गमापेक्षया. (c) D, De, Oa, S, U, Mg. दुष्कर एष
इत्यति ; T दुष्करमेष इत्य० .
 
Today, in the evening twilight, the knave deceived me:
as he had offended against me, I sent him away ; he, how-
ever, put on the clothes of my dear friend and came back
again. Under the illusion that he was my friend, I embraced
him and communicated to him my secret that I wished to
meet him. Thereupon he replied "Ab, simple one, but
that is very difficult (now)", and he laughed wildly and
pressed me powerfully in his arms! (41)
 
सासि सापराधे कान्ते प्रियतमे यापिते निष्कासिते प्रियसखीवेषं इष्ट-
वयस्यावेषं नेपथ्यं विधाय कृत्वा पुनरागते प्राप्ते सति मया भ्रान्त्या अज्ञानेन
तमालिङ्ग्य परिरभ्य तत्सङ्गेमाकाङ्क्षया तस्य सङ्गमः संपर्कः तस्मिन्नाकाङ्क्षा
वाञ्छा तया रहस्यं रहसिभवं रहस्यमुदितं कथितम् । अत्र रहस्यं नाम