This page has not been fully proofread.

५२
 
अमरुशतकम्
 
-
 
( १ ) D औत्सुक्यकृतव्यथया तदुक्तं सर्वेन्द्रियसुखात्वादो यत्रास्तीत्य-
भिमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुरिति । ( २ ) D
कुशीकृतशरीरयोः ( ३ ) D. adds यद्वा भूयः समागमे सति चिराजगन्नवमिव
जातमभिनन्दतोः । ( ४ ) D, सुरतं; D, निधुवनं ( ५ ) Dadds.
अत्र चेष्टवस्तुलाभात् हर्षो etc. ( ६ ) D. मुग्धा च.
 
कवेर्वाक्यम्
 
6
 
दीर्घा वन्दनमालिका विरचिता दृष्टचैव नेन्दीवरैः
 
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
दत्तः स्वेदमुचा पयोधरभरेणार्थ्यो न कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥
 
( a ) Oa, S दीर्घा तोरणमालिका; De, U दीर्घा चन्दनमालिका
(c) D, दत्तं; D, अध्य; D1, Ds, Ds, Oa भरेणाघ
 
O
 
With her eyes, and not with blue lotuses was made the
garland stretching long over the entrance; with her smiles
and not with Kunda and Jasmine and other flowers, was
strewn the flower-offering; with the pair of breasts dripping
with the dew of perspiration was made the respectful offer-
ing of water and not by water carried in a jar: the slender
one, with the parts of her own body, prepared a solemn
reception for her lover as he entered ( the house ). ( 40 )
 
दीर्घा आयता वन्दनमालिका तोरणलक दृष्टयैव रचिता निर्मिता
इन्दीवरैः नीलोत्पलैः न विरचिता । पुष्पाणां कुसुमानां प्रकरः प्रक्षेपैः
स्मितेन हसितेन रचितः कृतः कुन्दजात्यादिभिः कुसुमविशेषैर्नो न कृतः ।
आचारार्थं गृहांङ्गणेषु पुप्पोपहारः क्रियते । अय उपचारविशेषः । स्त्रेदमुचा
स्वेदं मुञ्चतीति स्वेदमुक् तेन पयोधरभरण कुचभारेण दत्तो वितीर्णः
कुम्भाम्भसा कलशोदकेन न दत्तः । एवं तन्व्या नायिकया विशतः
देशान्तरादागत्यं गृहप्रवेशं कुर्वतः प्रियस्य स्वैः स्वकीयैरवयवैरङ्गैरेव मङ्गलं
कल्याणं कृतमिति संबन्धः । ( देशान्तरात् प्रिये आगते सति नायिकाया