This page has not been fully proofread.

शृङ्गार दीपिकाव्याख्योपेतम्
 
५१
 
( १ ) D3, D, D, ° वाक्यचतुष्टयक्रमेण ; D, D° वाक्यचतुष्टये क्रमेण
(२ ) found only in D. ( ३ ) D1, D2, हेतुरलंकारः
 
कवेर्वाक्यम् ।
 
चिरविरहिणोरुत्कण्ठाय लथीकृतगात्रयो-
 
नवभिव जगज्जातं भूयश्वरादभिनन्दतोः ।
कथमपि दिने दीर्घे याते निशामधिरूढ्योः
 
प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ३९ ॥
 

 
( a ) D2, D, ० रुत्कण्ठार्तिश्लथी (b) Mg • दभिनन्दिनोः
 
(d) Oa, S यथा च तथा रतिः ।
 
Pining in separation for a long time, their limbs weak-
ened by the aching of intense longing, a young couple greet
each other again and again after a long time and the
world appears to them as new-born ; and after the
long day has somehow drawn to its close, and it is to
them already night, their conversation continues without
abatement, but not so their love-play. (39)
 
चिरविरहिणोश्चिरकालवियुक्तयोरुत्कण्ठार्त्या उत्कण्ठया औत्सुक्येन कृता
आर्तिः पीडा तया श्लथीकृतगात्रयोरवसादितशरीरयोर्भूयः पुनरभिनन्दतोः
संतुप्यतोः समागमेनेति शेषः । यूनोः युवतिश्च युवा च युवानौ । पुमांस्त्रियेत्ये-
कशेषः । तयोः चिराद् बहुकालात् जगद् भुवनं नवं नूतनमिव जातमुत्पन्नम् ।
ततो दीर्घे आयते दिने अहनि कथमपि कृच्छ्रेण याते सति । अत्र दिनस्य
दीर्घता प्रतिपत्तिर्गुरुसन्निधिवशादन्योन्यसंभाषणाद्यभावेनेत्यवगन्तव्यम् । निशां
रात्रिमधिरूढयोस्तयोर्बह्नी बहुला कथा संलापः यथा येन प्रकारेण प्रसरति
प्रवर्तते तथा तेन प्रकारेण रतिः रेंतं न प्रसरतीति संबन्धः । चिरात्सङ्ग-
तयोर्विरहिणोः परस्परक्लेशसंकथनं रतेरपि सुखावहमित्यभिप्रायः । हँर्षो नाम
संचारी भावः । नायिका स्वीया मर्थ्यां च । नायकोऽनुकूलः । प्रवासानन्तरं
संभोगशृङ्गारः । जातिरलंकारः ।