This page has not been fully proofread.

५०
 
अमरुशतकम्
 
अत्र
 
मन्दहास्यसंवन्धे सति ( ६ ) D, D2, Dg परिहृतः ( ७ ) D,
कोपभावशान्तिसूचक हासः । (८) De, Bm मुग्धा
प्रियेण परिभूता नायिका स्वकीयां दशां सख्याः पुरस्तादाह-
गते प्रेमावेशे प्रणयवहुमाने विगलिते
 
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
 
न जाने को हेतुर्दति शतधा यन्न हृदयम् ॥ ३८ ॥
 
(b ) D प्रणयिनि जने (c) D2 गतांस्तांस्तु
 
Dear frien 1, when the ardour of love has abated, when
the high regard springing out of affection has vanished,
when the friendly feeling is no longer evident, and when he,
the beloved of my heart, moves before my very eyes like a
(perfect ) stranger : I call to my mind that humiliating
experience and look back on the days that are no more
and wonder that my heart is not yet broken into a hundred
fragments. 138)
 
हे प्रियसाखे प्रेमावेशे रागोद्रेके गते सति ततः प्रणयबहुमाने प्रणयेन
प्रेम्णा कृतो बहुमानः आदरः प्रणये सति यादृशो बहुमानः क्रियते तादृश
इत्यर्थः । तस्मिन् विगलिते विनष्टे सति तदनन्तरं सद्भावे सौजन्यं निवृत्ते
अपयाते सति तदानीं जने तस्मिञ्जने जन इव सामान्यजन इव पुरः अग्रतः
गच्छति व्रजति सति तत् प्रियकृतमवमानं च गतान् यातान् दिवसांश्च येषु
दिवसेषु सुखेनोषितं तान् दिवसानित्यर्थः । उत्प्रेक्ष्योत्प्रेक्ष्य स्मृत्वा स्मृत्वा च
मम हृदयं शतधा बहुप्रकारेण न दलति न भिद्यते इति यत् अत्र को हेतुः
किं वा कारणमिति न जाने नावगच्छामि इति संबन्धः । अत्र गते प्रेमावेशे
इत्यादिवाक्यचतुष्टयेन क्रमेण प्रेम्णो हासोऽवगम्यते । अत्र निर्वेदो नाम
संचारी भावः । तथोक्तं - दुःखेर्म्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः । तत्र
चिन्ताश्रुनिश्वासदीनताः संभवन्ति चेति अत्र नायिका साधारणा । चित्र-
 
हेतुरलंकारः ।