This page has not been fully proofread.

४८
 
नवसङ्गमे लज्जाव्याकुलाया नायिकाया दशां कविराह
पटालने पत्यौ नमयति मुखं जातविनया
 
-
 
-
 
हठालेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
अशक्ता चाख्यातुं स्मितमुखसखीदत्तनयना
 
अमरुशतकम्
 
हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ३६ ॥
 
(a) D♭ पटालम्बे ; Ds, U पटे लग्ने (c) D, न शक्ता
 
When the husband clings to the garment, she demurely
bends her countenance; when he desires a passionate
embrace, she moves her limbs aside stealthily; she directs
her glance towards her smiling friends and is unable to say
anything the newly married one suffers inwardly in shame
during the first pleasantry. (36)
 
पत्यौ पटालग्ने चलाञ्चलमाहिणि सति जातविनया सती । अत्र विनय-
शब्दः कुलपालिकाजनोचिताचारवाचकः । मुखं नमयति अवाक् करोति । हठा-
श्लेषं प्रसभालिङ्गनं वाञ्छति अभिलषति सति गात्राण्यङ्गानि निभृतं निश्चलं
यथा भवति तथा अपहरत्याकर्षति । आख्यातुमेन निवारयेति वक्तुमशक्ता
अक्षमा सती स्मितमुखसखीदत्तनयना भवति स्मितयुक्तं मुखं यासां ताः
तथोक्ताः ताश्च ताः सख्यः तासु दत्ते विन्यस्ते नयने नेत्रे यया सा तथोक्ता ।
एवं प्रथमपरिहासे आयनर्मव्यापारे नववधूर्नवोढा ह्रिया लज्जया अन्तः
अन्तरङ्गे ताम्यति ग्लानिं भजति इति संबन्धः । अत्राभिप्रायो व्यक्त एव ।
व्रीडा नाम संचारी भावः तथा चोक्तं- चेतःसंकोचनं व्रीडा मुखरागस्तवा-
दिभिरिति । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । संभोगशृङ्गारः ।
सेनेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः ।
 
( १ ) D, पटालम्बे ( २ ) D drops इति संबन्धः
found in Da only ( ४ ) Mg मध्या ( ५ ) Do
शृङ्गारि नर्म
 
( ३ )
 
संगेच्छा नाम