This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतन्
 
४५
 
मात्रं न सखीप्रार्थनादिकम् । यत्र यस्मिन्प्रेणि प्रसादः प्रसन्नता दृष्टिपातः
अवलोकनमात्रं नाश्रुपातादिकम् । अत्र चतुर्थवाक्ये कविना यत्रेति शब्दः न
कृतः । तदयुक्तम् । यत्र दृष्टिः प्रसाद इति वा पाठः । तस्य प्रेम्णः अधुना
इदानीं वैशसं हानिः जातं उत्पन्नं तदिदं पश्यावलोकय । वैशसशब्दमेव
विवृणोति । त्वमिति । त्वं पादान्ते पादप्रान्ते लुठसि परिवर्तसे पादप्रणामं
करोषीत्यर्थः । तथापि खलाया दुष्टाया मे मन्युमोक्षः कोपोपशान्तिश्च न भवतीति
संबन्धः । अत्र मन्युः प्रियर्धृष्टतानिमित्तकः । यथा भारतीये - प्रतिपक्षसकाशात्तु
यः सौभाग्यप्रकाशकः । उपसर्पेत्सचिह्नश्च मन्युस्तत्रोपजायते ॥ इति ।
खलाया इत्यात्मनि खलत्वारोपेण प्रियस्य खलत्वं ज्ञाप्यते । मन्युमोक्षाभाव-
कथनेन प्रियस्यापराधातिशयो व्यज्यते । अग नायिका स्वीया धीरा
प्रगल्भा च । किं च खण्डिता । नायको धृष्टः । मानकृतो विप्रलम्भाङ्गारः ।
ईक्रोधप्रायं नर्म । आक्षेपोऽलंकारः ।
 
( १ ) D,. D2, D, अतिशयवक्रोक्त्या । ( २ )
 
( ३ ) Mt
 
भ्रूविक्षेप रचनामात्रं
 
D. रोषः
(४) D1,D2,D,D,,Bm वैश-
सजननं ( ५ ) D, Mt प्रियदुष्टता ० ( ६ ) Bm सौभाग्यैकविकत्थनः ।
 
(७) D,D,D. धीराधीरप्र०
 
कुपित नायिकां सान्त्वयतो नायकस्य स्थितिं कविराह-
 
सुतनु जहिहि मौनं पश्य पादानतं मां
 
न खलु तव कदाचित् कोप एवंविधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
 
नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३४ ॥
 
"Break thy silence, Oh pretty one; behold me lying
at thy feet! Never before was thy anger like this! As
the husband spoke thus,she turned her closed eyes sideways
and allowed the tears to flow copiously, but no word to
come to her lips. (34)