This page has not been fully proofread.

४४
 
अमरुशतकम्
 
सोऽस्याः अस्तीति प्रेमावेशिनी तस्या भावः प्रेमावेशिता तथा । त्वतलोर्गुण-
वचनस्येति पुंवद्भावः । तरलया चपलया मया तन्मुखे तस्य प्रियस्य मुखे मुखं
मदीयं न्यस्तं निहितम्। ततस्तस्य धूर्तस्यै वञ्चकस्य रोमाञ्चतः पुलकोद्गमात्
नयनयोरलीकनिमीलने असत्यमुकुलने ज्ञाते विदिते सति मम लज्जासीत् । सा
लज्जापि तेन धूर्तेनेत्यर्थः । तत्कालयोग्यैस्तत्समयोचितैः क्रमैः न्याय्यैरुपचारै-
रित्यर्थः । अपहृता निरस्तेति संबन्धः । अभिप्रायो व्यक्त एव । औत्सुक्यं
नाम संचारी भावः । नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । संभोग-
शृङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः ।
 
( १ ) D. प्रेमवशीकृतं ; D प्रेमातिशयकृतं ( २ ) D3, D6,
Mt omit वञ्चकस्य ( ३ ) Dg मुग्धा ( ४ ) Mt आक्षेपोऽलंकारः । युक्ति-
रलंकारः ।
 
नायकस्यापराधातिशयेन कुपिता नायिका वक्रोक्त्या तमाह---
 
कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
 
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
 
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः । ३३ ॥
(b) Mg यत्र दृष्टिः प्रसादः
 
Q, behold, what a disaster has befallen that (former) love
of ours ; when a wrinkling of the brow was anger, when
silence was strife, when a mutual smile was reconciliation
and a glance a favour ! To-day, on the other hand, you
wallow at my feet and yet my wicked self cannot get rid of
anger.
(33)
 
यत्र यस्मिन्प्रेम्णि कोपोऽमर्षः भ्रुकुटिरचना भ्रूभेदेकल्पनामात्रं न तु
निर्भर्त्सनादिकम् । अत्र कोपशब्देन कोपकृतकर्म लक्ष्यते । यत्र यस्मिन्प्रेम्णि
विग्रहो विद्वेषः मौनमभाषणमेव न तु विश्लेषः । विग्रहशब्देनापि तत्कर्म
लक्ष्यते । यत्र यस्मिन्प्रेम्णि अनुनयः सान्त्वनं अन्योन्यस्मितं इतरेतरहसित-