2025-04-20 14:32:15 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदी पिकाव्याख्योपेतम्
४३
जीवित तव गन्तव्ये गमने कर्तव्ये सति प्रियसुहृत्सार्थः प्रियाश्च सुहृदश्च प्रिय-
सुहृदः तेषां सार्थः समूहः किमुत्सृज्यते किमर्थं परित्यज्यते त्वया तेन सह
गन्तव्यमित्यर्थः । इति संबन्धः । अत्र नायिकायाः प्रियप्रयाणनिश्चयज्ञानन
सद्यः समुद्भूतविरहसंतापतिशयं असहमानायाः एवं जीवितोपलम्भनेन तस्या
जीवितधारणं अनिष्टमिति व्यज्यते । अत्र दैन्यं नाम संचारी भावः । अत्र
नायिका स्वीया मध्याप्रगल्भयोरन्यतरा । नायकोऽनुकूलः । प्रसविप्रलम्भ-
शृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः ।
( १ ) Mt सद्योविरहेण देहकार्थ्यात् ( २ ) D. बाष्पैः; Dg अश्रुभिः
( ३ ) D, नास्थितं नावसितं ; Bm, Mt नासितं नास्थितं । ( ४ ) Dg,
Bm, Mt संतापदशातिशयं ; Mg • विरहदशातिशयं ( ५ ) D. मुग्धा-
प्रगल्भयोरन्यतरा ; Da adds उदयद्यौवना मुग्धा, प्रौढा संपूर्णयौवना ।
( ६ ) D, भाविप्रवास ०
नायिका प्रेमावेशकृतं स्वकीयं चापलं सख्याः पुरस्तादाह-
सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रेमावेशितया मया तरलया न्यस्तं मुखं तन्मुखे ।
ज्ञातेऽलीकनिमीलने नयनयोर्धर्तस्य रोमानतो
लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥ ३२ ॥
(b) Ds, O प्रेमावेशतया ; T तया तरलया
" He is asleep, now thou, too, shouldst sleep, Oh
friend!" With these words the female friends depart.
Thereupon I, eager that I was, and like one possessed
by love, pressed my mouth against his mouth. When
however, I noticed, from the rippling of the skin of the
rogue that he held his eyes closed in a feigned manner, I was
seized by shame which he swept away by indulging in acts
appropriate to the occasion. (32)
हे सखि अयं सुप्तः निद्रितः । त्वयापि सुप्यतां सुप्तिः क्रियतामित्युक्त्या
सख्यो गताः । ततः सखीगमनानन्तरं पश्चात्प्रेमावेशितया प्रेम्ण आवेश उद्रेकः