This page has not been fully proofread.

४०
 
1
 
अमरुशतकम्
 
चरणन्मणिनूपुरौ कृतौ रणन्तौ मणिनूपुरौ ययोस्तौ तथोक्तौ । हे मुग्धे हैं
मूढे त्वमेवमनेन प्रकारेण आहतडिण्डिमा प्रहतवाद्या सती निर्मलहारज्यो-
त्स्नया भूषणरबैश्च आत्मप्रकाशनं कुर्वतीत्यर्थः । प्रियमभिसरसि यदि प्रियं
प्रति कामुकी गच्छसीति चेत् अधिकत्रासोत्कम्पादुद्गतः कम्पो यस्याः सा
उत्कम्पा त्रासेन उत्कम्पा अधिकं अत्यर्थे त्रासोत्कम्पा भूत्वा दिशः
ककुभः इतस्तत इत्यर्थः । किं समुदीक्षसे किमर्थे विलोकयसि इति संबन्धः ।
अत्र अभिसर्तु प्रवृत्तचा बाह्याङ्गणे त्रासाद्दिशोऽवलोकयन्तीं नायिकां यदृच्छया
समागता सखी हे मूढे अभिसरणे एवमाहतडिण्डिमायास्तव त्रासः संभवति
किमिति वक्रोक्त्या उपालभ्य तस्यास्तादृशं गमनं प्रतिषेधैतीत्यभिप्रायः । अत्र
शङ्का नाम संचारी भावः । यथोक्तम् - शङ्कानिष्टागमोत्प्रेक्षा विभावोऽस्या निरू-
प्यते । चौर्यराजापराधात्स्यादकार्याद्ग्रहणं नृणाम् ॥ अनुभावो भवत्यस्यां
वैवर्ण्य स्रुक्कलेहनम् । अन्योन्यादर्शने यत्नो वीक्षणं च मुहुर्दिशामित्यादि ॥
अत्र नायिका परकीयेति नाशङ्कनीयम् अभिसरणे तस्याः स्वनवभूषण-
धारणस्यायुक्तत्वाद् । किं च साधारणा न भवति । अभिसरणे त्वस्याः
त्रासत्कम्पत्वस्याभावात् । किंतु स्वीया मध्या च । ननु स्वीयाया अपि
अभिसरणे स्वनवद्भूषणधारणमयुक्तमेव । सत्यमयुक्तम् । एतत्स्वनवभूषण-
धारणमभिसरणे कृतमेव न भवेत् । किंतु वासकसज्जिकावस्थायां कृतम् ।
यथोक्तं भारतीये – उचिते वासके या तु रतिसंभोगलालसा । मण्डनं कुरुते
हृष्टा सा स्याद्वासकसज्जिका । वासोपचारेणात्यर्थं भूषणग्रहणं भवेत् । रशनानू-
पुरप्रायं स्वनवच्चैव यद् भवेदिति ॥ इयं प्रथमं वासकसज्जिका भूत्वा प्रिये
चिरयति सति तत उत्कण्ठांतिशयं प्राप्ता मदनेन मदेन प्रेर्यमाणा अज्ञानेन
तथैव साभरणा अभिस प्रवृत्ता । तथा हि- हित्वा लज्जां समाकृष्टा मदेन
मदनेन च । याभिसारयते कान्तं सा भवेदभिसारिका ॥ सारयते इत्यत्र स्वार्थे
ण्यन्तः । संलीना स्येषु गात्रेषु त्रस्ता दिक्प्रेषितानना । अवगुण्ठनसंवीताभि-
गच्छेत्कुलजाङ्गना ॥ इत्युक्तत्वान्न दोषः । नायको दक्षिणः । अत्र
सहास्यं
शृङ्गारि नर्म। यथोक्तं दशरूपके-- हास्येनैव सांगारभयेन विहितं त्रिधा ।
इति । आक्षेपोऽलंकारः
 
-
 
( १ ) D, प्रियाभिसरणोद्युक्तां नायिकां ( २ ) D, adds यदृच्छयागता
सखी ( ३ ) ॰
ं D, स्त्रप्रकाशं कुर्वाणा सती ( ४ ) D, अतिमात्रं ( ५ )