2025-04-20 14:32:14 by ambuda-bot
This page has not been fully proofread.
३८
4
अमरुशतकम्
( १ ) D प्रियस्य प्रेमकृतानिष्टाचरणकाले ( २ ) D, यदा ( ३ ) D.,
Bm explain परिवर्तमानचूर्णकुन्तलैः । अलकाः चूर्णकुन्तला इत्यमरः ।
( ४ ) D विवर्तमाननयनेन्दीवरा भूत्वा ; D1, D, Mg drop बाप्प -
व्याप्तनेत्रोत्पला ( ५ ) D drops इति संबन्ध: ( ६ ) D 6
अपराधिनं नायकं नायिका भर्त्सयति ।
संदिशति.
भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ २८ ॥
(c) D♭ तयाभूतं ; O, Oa, Mg तदा रूढं; D प्रसक्तं
हते गतजीविते.
(d ) Do
Enough! Now, I know ; stop this blabber, my dear,
and depart. You bear not the slightest guilt, but fate is
adverse to me. When your love, which was so great, has
come to this pass, what pain shall I experince at the pass-
ing away of my accursed life which by nature so fragile ?
(28)
भवतु आस्तां नाम भवता यदुच्यते मयि नापराध इति तत्तथैव भवतु
इत्यर्थः । विदितमेतज्ज्ञातम् । अत्र निह्नवोऽनुसंधेयः । हे प्रिय व्यर्थालापै-
निरर्थकवचनैरलं पर्याप्तम् । गम्यतां निर्गमः क्रियताम् । ते दोषः अपराधः
तनुरपि स्वल्पोऽपि नास्तीति अस्माकं तु विधिदैवं पराङ्मुखो विमुखः
प्रतिकूल इत्यर्थः । तथां रूढं तेन प्रकारेण अतिशयितं तव प्रेम इमामीदृर्शी
दशामवस्थां प्रपन्नं यदि प्राप्तं चेत् प्रकृतितरले स्वभावचञ्चले हतजीविते व्यर्थ-
जीविते गते निर्याते सति नः अस्माकं का पीडा का बाधा र्ने व्यथेत्यर्थः ।
इति संबन्धः । प्रेमत्यागस्त्वया क्रियते यदि मया प्राणत्यागः क्रियत इत्यनेन
गम्यमाननार्थेन इतःपरमेवं त्वया न कर्तव्यं इत्ययमर्थो व्यज्यते । नायिका
स्वीया प्रगल्भा धीरौ च । यथोक्तं दशरूपके - सावहित्थादरोदास्ते रतौ