2025-04-20 14:32:14 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
कवेर्वाक्यम्---
प्राणेशप्रणयापराधसमये सव्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्ति संसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
३७
वाला केवलमेव रोदिति लुठल्लोलालकैरञ्जभिः ॥ २७ ॥
(a)s प्राणेशप्रथमा ० (b) Bm सखि भ्रमाङ्गवलना •
Upon the first offence against love on the part of her
husband, the young wife does not understand how to express
her feelings by sallics of wit, accompanied by a charming move-
ment of her limbs, without the instructions of female friends;
but with her lotus-like eyes roving, she only knows weeping
so that the bright tears tumble down on the clear cheeks
mixing with her fluttering locks. (27)
प्राणेशप्रणयापराधसमय प्राणेशस्य प्रियतमस्य प्रणयापराधः प्रणयेन प्रेम्णा
कृतोऽपराधः अनिष्टाचरणं तस्य समये काले सख्या वथस्यया कृतमुपदेशं
विना सखीकृतोपदेशाभावात् इत्यर्थः । बाला सविभ्रमाङ्गवलना सविलासगाव-
परिवर्तना सती पराङ्मुखीत्यर्थः । वक्रोक्तिसंसूचनं वक्रोक्तिभिः कुटिलभाषणैः
संसूचनमपराधज्ञापनं येतो नो जानाति न वेत्ति ततः स्वच्छैः अकलुषैः
अच्छकपोलमूलगलितैः निर्मलगण्ड प्रान्तनिःसृतैः लुठल्लोलालकैः लुठन्तः
परिवर्तमानाः लोलाश्वला अलका चूर्णकुन्तला येषु तानि लुठल्लोलालकानि
तैरश्रुभिर्बाणैः पर्यस्तनेत्रोत्पला बापव्याप्तनेत्रोत्पला केवलं रोदित्येव रोदनमेव
करोति कंचिदुपायं न जानातीत्यर्थः । इति संबन्धः । अत्र सविभ्रमाङ्गवलने-
त्यनेनैकशय्याविरहो व्यज्यते । शय्याशयनेनैव अलकानां अश्रुषु लुटनं संभवति ।
मध्याप्रगल्भे स्वत एव कोपप्रतिकारं जानीतः । मुग्धा तु उपदेशमन्तरेण न
किञ्चिजानातीत्यभिप्रायः । दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धा च ।
नायकोऽनुकूलः । प्रणयमानतो विप्रलम्भशृंगारः । मानकृतं चेष्टारूपं कैशिकी-
वृत्तेरङ्गं नर्म । जातिरलंकारः ।