2025-04-20 14:32:13 by ambuda-bot
This page has not been fully proofread.
३४
अमरुशतकम्
तस्यास्त्वत्प्रेयस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं सान्द्रं निबिडं विले-
पनं कुङ्कुमादिचर्चा यस्य तत्तथोक्तम् । सान्द्रविलेपनं च तत् स्तनतटं च
तस्य प्रश्लेषः आलिङ्गनं तेन कृता मुद्रा पदं तया अङ्कितं लाञ्छितं वक्षः
चरणानतिव्यतिकरव्याजेन चरणानतेः पादप्रणामस्य व्यतिकरः संबन्धः स
एव व्याजः अपदेशस्तेन किं किमर्थे गोपाय्यते प्रच्छाद्यते इति तया उक्के
सति मया तत् कर्म व कुत्रेति उदीर्य उक्त्वा सहसा तत् अङ्क अङ्गरागं
संप्रमाष्टुमपनेतुं रभसेन रयेण आश्लिष्टा आलिङ्गिता तत्सुखवशात् तदालिङ्गन-
सुखवशात् तन्व्या च तत्प्रकृतं कर्म विस्मृतमासीदिति संबन्ध: । अत्र नाय-
केन रात्रावन्यतो गत्वा प्रातरागत्य तदपराधप्रमार्जनाय खण्डितायाः नायिकायाः
पादप्रणामो कृतः । तदानीं तया भोगँचिह्ने दृष्टे नायकः प्रत्युत्पन्नमतिः सन् एवं
कृतवानित्ययमर्थो गम्यते । कोपभावशान्तिः । अत्र नायिका स्वीया मध्या च ।
नायकः शठः । तेन रसान्तरं नाम मानापनयनोपायः कृतः रभसत्रास-
हर्षाद्यैः कोपभ्रंशो रसान्तरमित्युक्तत्वात् । मानानन्तरं संभोगेः । अत्र नर्मगर्भः ।
युक्तिरलंकारः ।
( १ ) D3, Bm सापराधं; Mt सापराधित्वात् कुपितां ( २ ) Mt
प्रमोहयतो ( ३ ) D, पादप्रणामसंबन्धच्छद्मना किं किमर्थे गोपाय्यते
( ४ ) D,,D, तदङ्कनं प्रमार्छु; D, drops अङ्क अङ्गरागं ; Da drops
अङ्गरागं ( ५ ) D, हठालिङ्गनपारवश्यात् ( ६ ) Dg, Bm
नाय ( ७ ) D तमा भोगचिह्नं दृष्टम् । नायकः प्रत्युत्पन्नमतिः स एवं
कृतवान् etc. ( ८ ) D, तल्लोपं ( ९ ) D संयोग: ; D, D2, Mg
संभोगगृङ्गारः ।
संभोगतरलस्य नायकस्य चेष्टां कविराह-
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वेणिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितवधूनेत्रोत्सवानन्दितो
० च्छाद-
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २५ ॥