This page has not been fully proofread.

३०
 
अमरुशतकम्
 
चापराधी प्रियः तस्मिन् समागते सति नीवी दृढं बन्धनीया निद्रितयैव
स्थातव्यमिति सख्युपदेशोऽवगम्यते । स्वप्नोद्वेगकल्पनयावकाशो दत्त इत्यनेन
प्रेमातिशयो व्यज्यते । अत्रावहित्थं नाम संचारी भावः । नायिका स्वीया
मध्यौ च । नायकः शठः । संभोगशृङ्गारः । अल कैशिकीवृत्तेरङ्गं नर्मगर्भः ।
युक्तिरलंकारः ।
 
( १ ) Mt adds परिचारकं ( २ )
D. नाशयसि D2, Bm निवारयति ( ४
 
( ५ ) De मुग्धा.
कवेर्वाक्यम् -
 
6
 
D, Do लुम्पसि ( ३ ) Dar
) D. • क्रोधया ; Mt of • रोषया
 
6
 

 
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
रम्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोगौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो-
 
र्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥२१॥
 
Lying on the same bed with averted faces, suffering for
want of response in their conversation, though the desire to
placate each other lay in the heart, the couple was jealous
of their prestige; but slowly their glances mingled as the
eyes rolled to their corners, and their love-quarrel suddenly
broke down in laughter and passionate embraces. ( 21 )
 
एकस्मिन् शयने एकशय्यायां पराङ्मुखतया असंमुखतया वीतोत्तरं
निर्वचनं बद्धमौनमित्यर्थः । ताम्यतो ग्लानिं भजतोः । किं चान्योन्यस्य इतरे-
तेरस्य हृदि हृदये सान्त्वने स्थिते सत्यपि गौरवं गरिमाणं संरक्षतोः परि-
पालयतोरविनाशयतोरित्यर्थः । शनकैर्मन्दं अपाङ्गवलनात् नेत्राञ्चलव्यावर्त -
नात् मिश्रभवचक्षुषोः सम्मीलितदृष्टयोः । अत्र चक्षुः शब्देन दृष्टिर्लक्ष्यते ।
दम्पत्योर्मानकलिः मानेन प्रणयकोपेन कृतः कलिः कलहः । तथा चोक्तंम्
प्रणयेर्ण्यादिभावाभ्यां मानो द्वेधा निगद्यते । तत्र प्रणयमानः स्यात् कोपोर्तेह-
तयोर्द्वयोरिति । सहासरभसव्यावृत्तकण्ठग्रहं सहासो हाससहितः रभसेन रयेण
 
-