This page has not been fully proofread.

२८
 
अमरुशतकम्
 
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्त्या रुषा परुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्तनाहितहस्तया
नयनसलिलक्लिन्ना दृष्टिः सखीषु निपातिता ॥ १९॥
 
(a) 0. ० पतितप्रत्या
 

 
(b) D6 Bm, Mg चारेत्युक्त्वा
 
(c) Do °च्छिन्ना ; Bm. ०छना.
 
..
 
°
 
"
 
As she forbade the lover throwing himself at her feet,
he showed himself averse to kindness or favour and when
his feelings were soured by epithets like 'sly scoundrel
he turned his back on her; thereupon she heaved a deep
sigh and held her hands on her bosom and directed her
glance, veiled in tears, towards her friends. ( 19 )
 
चरणपतनप्रत्याख्यानात् चरणपतनस्य पादप्रणामस्य प्रत्याख्यानं निरसनं
अनङ्गीकार इत्यर्थः । तस्मात् प्रसादपराङ्मुखे प्रसादः प्रसादनम् । णिजन्तात्
घञ् । तत्र पराङ्मुखः विमुखस्तस्मिन् । किं च हे निभृतकितवाचार निगूढँ-
धूर्तचारित्रेत्युक्त्या इति वचनेन जनितया रुषा कोपेन परुषीकृते रूक्षतां
गमिते रमणे दयिते व्रजति निर्गच्छति सति । उच्चैरतितरां निःश्वस्य निश्वासं
कृत्वा स्तनाहितहस्तया कुचनिहितहस्तया । अत्र कविना पताकाहस्तो विव-
क्षितः । अत्याहिते हृदि न्यस्ते हस्त इत्युक्तत्वात् । नायिकयेति शेषः ।
नयनसलिलक्लिन्ना नयनसलिलैर्नेत्रजलैः क्लिन्ना आर्द्रा दृष्टिः । निरीक्षणम् ।
अत्र दीना नाम दृष्टिर्विवक्षिता । यथोक्तं - सबाष्पमन्दसंचारा शोर्केदीना
गीरिति । सखीषु निपातिता न्यस्तेति संबन्धः । अत्र चरणपतनप्रत्या-
ख्यानादित्यनेन निभृतकितवाचारेत्युक्त्या च अपराधी प्रियः तस्मिन् प्रसादो
न कर्तव्यः परुषवचनान्यपि प्रयोक्तव्यानीति सख्युपदेशश्च निःश्वस्येत्यनेन
पश्चात्तापश्च । स्तनाहितहस्तयेत्यनेन अत्याहितं च । नयनसलिलक्लिन्ना दृष्टिः
सखीषु निपातितात्यनेन भवतीनां दुरुपदेशेन ईदृशीमवस्थां प्राप्तास्मीत्ययमर्थ-
श्वावगम्यते । अत्र दैन्यं नाम संचारी भावः । नायिका स्वीया मुग्धा च ।
किं च कलहान्तरिता । नायकः शठः । विप्रलम्भशृङ्गारः । सर्भयं नर्म ।
जातिरलंकारः ।