This page has not been fully proofread.

२६
 
अमरुशतकम्
 
दूरतः दूरादेव प्रत्युद्गमात् प्रयुत्थानादेकलैकस्मिन् पीठादौ आसनसङ्गतिः
आस आसीनंतया कृता सङ्गतिः मेलनं परिहृता निषिद्धा । ताम्बूलानयन-
च्छलेने रभसा श्लेषोऽपि रभसेन त्वरया कृता श्लेषः संविघ्नितः संजातविघ्नः कृतः ।
तारकादित्वादितच् । अन्तिके समीपे परिजनं व्यापारयन्त्या कार्येषु प्रेरयन्त्यौ तया
आलापोऽपि भाषणमपि न मिश्रितः न संयोजितः । अनेन प्रकारेण चतुरया
विदग्धया कान्तं प्रति प्रियतममुद्दिश्य उपचारत उचितोपचारात् कोपः ईर्ष्या-
मानः कृतार्थीकृतः सफलीकृत इति संबन्धः । अपराधिनि प्रिये समार्गते सति
सहवाससंश्लेषसंल्लापानामकरणमेव कोपस्य कृतार्थत्वमित्यभिप्रायः । अत्राव-
हित्थं नाम संचारी भावः । यथोक्तं भारतीये – अवहित्थं भयत्रीडाधाष्टर्य-
कौटिल्यगौरवैः । आकारगोपनं तस्मिन्ननुभावा भवन्त्यमी ॥ अन्यथा कथनं
दृष्टेरन्यथा चान्यथा स्थितिः । विषाददैन्यकृतके कथाभङ्गो मृषादरः ॥ इति ।
अत्र नायिका स्वीया प्रगल्भा धीरा च । नायकः शठः । अत्र मानकृतो
विप्रलम्भशृङ्गारः नर्मगर्भः । यथोक्तं - छननेत्रप्रतीचारो नमगर्भोऽर्थहेतव
इति । युक्तिरलंकारः ।
 
0
 
-
 
( १ ) D3, Do, Bm प्रियं ( २ ) D, D, Dy, आसिकया ; D2
आसनसङ्गतिः मेलनं परिहृता ; Bm आसिताया मेलनं ( ३ ) Da adds
वीटिका प्रापणव्याजेन ( ४ ) D explains त्वरया कृतमालिङ्गनमपि
Mt आश्लेषः परिरम्भोऽपि ( ५ ) D explains गन्धाद्याहरणाय प्रेरयन्त्या
( ६ ) D, adds न श्रुत इत्यर्थः । ( ७ ) D,, D2, drop उचित before
उपचारात् ; D, कुलाङ्गनाक्रियमाणोचिताचारादिव ( ८ ) D समागच्छति
( ९ ) D,, D2, D,, Mg विषादधैर्ये कृतके कथाभङ्गो मृषादरः ।
D, विषादधैर्यकृन्नर्म कथाभङ्गो मृषादरः । ; Mt विषादधैर्यकृतककथाभो
मृषादरः । ( १० ) D, D2, Bm, Mt, add सावहित्थादरोदास्ते रतौ
धीरेतरा कुधेति । .
 
कवेर्वाक्यम्-
 
दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरा-
 
देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।