This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे
 
२३
 
व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥१५॥
(c) S कर्णालङ्कृत ० (d ) D प्रकरोति ; S, T डाडिम
 
When the house-parrot, which had heard the words
exchanged during the night between the married couple,
repeats them beyond measure in the presence of the
elders, the young bride, afflicted by shame, hinders
its speech as she sticks a small ruby from her ear-orna-
ment into its beak under the pretext of a pomegranate
seed. ( 15 )
 
-
 
निशि रात्रौ जल्पतोः दम्पत्यो यद्वचः गृहशुकेनाकर्णितं श्रुतं तद्वचनं प्रातः
गुरुसंनिधौ गुरुजनसमीपे अतिमात्रं बहुतरं निगदतः उच्चारयतः तस्य शुकस्य
चञ्चू पुढे त्रोटीसंपुटे व्रीडार्ता लज्जाकुला वधू रमणी दाडिमफलव्याजेन
दाडिमीबाजच्छद्मना । अत्र फलशब्देन बीजं लक्ष्यते । कर्णालम्बितपद्मरागश-
कलं कर्णभूषणकैलितमाणिक्यखण्डं विन्यस्य निधाय वाग्बन्धनं वचननिरोधं
विदधाति करोतीति संबन्धः । अत्र नायिका स्वीया प्रगल्भा च । प्रागल्भ्यं
कथमिति चेत् यथोक्तं दशरूपके - ऊहापोहोक्तिचातुर्य कार्यकौशलसंयुता ।
यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्भेऽप्य-
चेतना ॥ नायकोऽनुकूल । अत्र सम्भोगशृंगारः । यथोक्तं दशरूपके
अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो
मुदान्वितः ॥ अत्र नर्मगर्भो द्योत्यते । यथोक्तं - छननेत्रप्रतीचारो नर्म-
गर्भोऽर्थहेतव इति । युक्तिरलंकारः । यथोक्तम् - अयुज्यमानस्य मिथः
शब्दस्यार्थस्य वा पुनः । योजना क्रियते या सा युक्तिरित्युच्यते बुधैः ॥ इति ।
( १ ) Mg adds सल्लापवतो: after जल्पतो:; D,, D2, Bm, Mt
संल्लभतोः ( २ ) Do
३ ) D1, D,
कर्णभूषणनिहितमाणि-
क्यश्रीखण्डं; D2 कर्णभूषणनिहितमाणिक्यखण्डं : Bm कर्णभूषणकलितं
माणिक्यखण्डं Mt कलितं माणिक्यपिण्डं.
 
0
 
t