This page has not been fully proofread.

१६
 
अपराधिनं नायकं नायिका निर्भर्त्सयति ।
 
अमरुशतकम्
 
कोपात्कोमल लोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा मोहनमन्दिर दयितया स्वैरं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
 
घन्यो हन्यत एव निद्भुतिपरः प्रेयान् रुदत्या हसन् ॥ १०॥
 
(d) Ds, O, S, Mg, Mt रुदन्त्या .
 
Binding him tightly, in her anger, with the shackles of
her lissome creeper-like arms, she conducts her lover in the
presence of her friends into the pleasure-house on her own
initiative; the stammering forth 'Ah, again he acted thus '
thus suggesting his misdemeanour, she strikes him weeping
while be, the blessed one, laughs, bent on denying
everything. (10)
 
कोपात्कोमललोल्बाहुलतिकापाशेनं कोमले मृदुले लोले सात्विकाविर्भा-
वेन सकम्पे बाहुलतिके एव पाशः तेन दृढं बद्ध्वा मोहनमन्दिरं संभोगगृहं
नीत्वो स्वैरं यथेच्छं सखीनां पुरः सखीनां समक्षं भूयोऽप्येवमिति पुनरपि
एवं करोषीति अधक्तया स्खलन्मृदुगिरा सगद्गदया मृदुलयों वाचा दुश्चेष्टितं
दुर्व्यापारं नायिकान्तरगमनरूपमित्यर्थः । संसूच्य संज्ञाप्य रुदर्त्यां दयितया
निह्नुतिपरो वञ्चनांपरी धन्यो भाग्यवान्' प्रेयान् प्रियतमो हसन् हन्यत
एव ताडयत एव इति संबन्धः । प्रियतमया कृतानि निबन्धननिर्भसं-
नताडनान्यपि धन्यत्वमापादयन्ति किमुत मधुर भाषणालिङ्गनादय इत्यभि-
प्रायः । नायिका स्वीया प्रगल्भा च किं च अधीरा । यथोक्तं दशरूपके-सा-
हित्थादरोदास्ते रती धीरेतरा क्रुधा । संतर्प्य ताडयेत्कान्त मध्याधीरेव तां
वदेतिति । नायको धृष्टः । यतो नायिकया संसूचितापराधस्ताड्यमानोऽपि
सहासेत्वात् । तथा चोक्तं - व्यक्ताङ्गो निर्भयो धृष्टः इति । ईष्यीमानकृतो
विप्रलम्भशृंगारः । अत्र विप्रलम्भकृतं ईर्ष्याक्रोधप्रायं सोपालम्भवचनं नर्म ।
यथोक्तं भारतीये - ईप्याक्रोधप्रायं सोपालम्भमिति । आक्षेपोऽलंकारः ।
प्रतिषेधोक्ति राक्षेप इति ।
 
-