2025-04-20 14:32:10 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिका व्याख्योपेतम्
१५
weep ? Do not (thus) favour them unnecessarily. Your
lover delights in love's play, is young and full of feeling.
Why do you not overpower him with hundreds of ironical
and harsh yet sweet compliments and make him your
own? (9)
नार्यो मुग्धशठाः सत्यः रमणं हरन्ति स्वाधीनं कुर्वन्ति । मुग्धाश्च ताः
शठाः बहिर्मुग्धा इव लक्ष्यमाणा अन्तःशठाः इत्यर्थः । वारिताः सत्यः नो
तिष्ठन्ति वारयितुं न शक्या इत्यर्थः । तत्तस्माद् हे कातरे भीरु किं ताम्यसि
किमर्थे ग्लानिं भजसि । किं च पुनः रोदिषि च । तासां त्वद्रमणहारिणीनां
प्रियमिष्टं रोदनादिकं मा कृथाः । अस्या रोदनादिकमेव तासां प्रियमित्यर्थः ।
प्रियस्तादृक् कान्तः केलिरुचिः क्रीडाप्रियः युवा सहृदयः रसिकश्च ।
नः
अस्माकं बर्बरकर्कशैः परुषकठिनैर्वचनैरिति शेषः । किं प्रयोजनं स नायकः
प्रियशतैराक्रम्य अवरुध्य विक्रीयते विक्रियाईः क्रियते स्वाधीनः क्रियत इत्यर्थः ।
इति संबन्धः । स्त्रीणां प्रियाकर्षणे नैपुण्यमेव प्रयोजनं न तु रोदनादिकं
परुषकठिनो व्यापारश्च । तस्मात्सर्वे परित्यज्य सौम्यप्रकृतौ प्रिये अत्यन्तप्रियान्
व्यापारान् प्रयुज्य तमावर्जयेति सखी बोधितवतीत्यभिप्रायः । दैन्यं नाम
संचारीभावः । अत्र नायिका स्वीया अधीरा मध्या च । अधीरत्वं कथमिति
चेत् बर्बर कर्कशैर्वचनैः किमिति सखीवचनात् । तथा चोक्तं दशरूपके-खेदयेद्द-
यितं कोपादधीरा परुषाक्षरैरिति । किं च कलहान्तरिता च । यथोक्तं- कोपा-
स्कान्तं पराणु पश्चात्तापसमन्वितेति । नायकः शठः । गूढविप्रियकृच्छठ इति-
वचनात् । मानकृतविप्रलम्भाङ्गारः । अत्र विप्रलम्भकृतं सोपालम्भवचनं नर्म ।
यथोक्तं भारतीये – ईर्ष्याक्रोधप्रायं सोपालम्भवचनं च न विरुद्धम् । सामोप-
क्षेपकृतं सविप्रलम्भकृतं नर्मेति । आक्षेपोऽलंकारः । प्रतिषेधोक्तिराक्षेप इति ।
Bm सद्य:
( १ ) DMg भेदोपायं गमिता ( २ ) D2 drops सत्य: ;
( ३ ) D स्वायत्तीकुर्वन्ति ( ४ ) D, adds after
शेषः - बर्बरः परुषेऽपि स्यात्, कर्कशे कठिने क्रूर इत्यमरः ( ५ ) D,
आकर्षय ; D. तमुपावर्तय; Dg तमार्जय ( ६ ) D. मुग्धा च
( ७ ) D. परित्यज्य ; Bm पराभूय ( ८ ) D,, D2, D,,Bm, Mt
drop this definition.