This page has not been fully proofread.

१२
 
मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादः स्फुटं
 
अमरुशतकम्
 
हे नित्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ ७ ॥
 
It was you who gave your love to her, and it was you
who entertained and cherished her for a long time; and it
is you who have, as fate would have it, inflicted a fresh
grief on her. The resentment she feels is hard to overcome
and cannot be obviously allayed by soothing words. Oh
cruel one! let this friend now weep piteously out of a full
throat. (7)
 
हे नायक अस्याः प्रणयो विखम्भस्त्वयैव दत्तः । प्रणयांस्त्वतिविस्रम्भ-
याञ्चाप्रेमाण इत्यमरः । किं च भवता सेयं चिरं लालिता उपलालिता । अद्य
दैवाद्दैववशात्त्वमेव अस्या एवंविधाया नवमपूर्व विप्रियमेप्रियं कर्म कृतवान्
किल । किलशब्दो वार्तायाम् । वार्तासंभाव्ययोः किलेत्यमरः । स एष मन्युरे-
वंविधो विप्रियजातः कोपो दुःसहः सोढुमशक्यैः । दुःसहत्वादेव सान्त्ववादैः
सामवचनैरुपशमं शान्ति नोपयाति स्फुटं निश्चयः । हे निस्त्रिश नृशंस ।
नृशंसखड्गौ निस्त्रिंशावित्यमरः । विमुक्तकण्ठं करुणं च यथा भवति तथा ।
कण्ठशब्देन कण्ठव्वनिर्लक्ष्यते । विमुक्तकण्ठकरुण अनिरुद्धकण्ठध्वनिकरुणं
सशोकातिशयं मम सखी तावद्रोदित्विति संबन्धः । अवधौ तावच्छन्दः ।
यावत्कोपः शाम्यति तावदित्यर्थः । रोदित्वित्यत्र रुदादिभ्यः सार्वधातुक इति
इडागमः । अत्र नायकेन भेदोपायं गमिता सखी नायकोपालम्भवचनव्याजेन
नायिकामुपालभते । किमित्यनेन तव विसम्भो दत्तः । चिरमुपलालनं न
कृतम् । यत्किंचिद्विप्रियं कृतमिति चेत्तद्देवादेव न स्वतः प्रवर्तितम् । साम-
वचनान्यपि कृतानि तथापि कोपात्र विरमसि । औचित्यं वर्जयित्वा रोदिषि
चेत् रुदिहि कस्त्वां वारयतीत्यभिप्रायः अत्र नायिका स्वीया मध्या च ।
नायकः शठः । अत्र विप्रियजातेर्ष्यामानकृतो विप्रलम्भाङ्गारः । यथोक्तं -
संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो रसः । अयोगो विप्रयोगश्च विप्रलम्भोऽपि
सद्विधा ॥ विप्रयोगस्त्रिधा मानप्रवास करुणात्मकः । अत्र मानो द्विधा
सोऽयमर्ष्याप्रणयपूर्वकः ॥ तत्रेयमानश्चतुर्विधः । यथोक्तं भारतीये – यत्र
 
-