This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम
 
११
 
beloved, seeing that thy sulkiness has passed beyond the
proper limit through the counsels of evil gossips, will get
disgusted with (any attempts at ) reconciliation and will
become indifferent towards thee. ( 6 )
 
हे कोपने हे कोपनशीले अङ्गुल्यप्रनखेनं बाप्पसलिलं विक्षिप्य विक्षिप्य
बहुशोऽवैधूय तूष्णीं किं वृथा रोदिषि । पिशुनोपदेशवचनैः दुर्जनबोधैनवा-
क्यैयस्यास्ते माने ईर्ष्याकोपे अतिभूमिं अतिशयं गते सति प्रियतमो निर्विण्णो
निर्वेदं प्राप्तः सन् अनुनयं प्रार्थनां प्रति मध्यस्थतामुदासीनतामेष्यति । तदा
सा त्वं बहुतरमतिमात्रं फूत्कृत्य फूत्कारं कृत्वा सशब्दमित्यर्थः रोदिष्यसीति
संबन्धः । अत्र सखी नायिकामिदानीं वृथा किं रोदिषि इतःपरं बहुतरं
रोदनं भविष्यति इति भार्यैयित्वा मानस्त्याज्यः इति कथयतीत्यभिप्रायः ।
अत्र नायिका स्वीया मध्या च । नायकः शठः । अत्र मानापनयनोपायो भेदः
तेन प्रवर्तितः इति अवगन्तव्यम् । साम्ना भेदेन दानेन नेत्युपेक्षारसा-
न्तरैरिति षड्भिरुपायैर्नायको नायिकानां मानमपनयति । तत्र चाटुवचः साम
भेदस्तत्सख्युपार्जनमित्युक्तत्वात् । मानकृतो विप्रलम्भाङ्गारः । अत विप्र-
लम्भैकृतं सोपालम्भवचनरूपं नर्म । यथा भारतीये -- ईर्ष्याक्रोधप्रायं सोपा-
लम्भवचनं च न विरुद्धम् । सामोपक्षेपयुतं सविप्रलम्भकृतं नर्म । आक्षेपोऽ-
लंकारः । प्रतिषेधोक्तिराक्षेप इति ।
 
( १ ) D,,D, गमिता ( २ ) D2 adds नखाग्रेण इत्यर्थः ; Mg
अगुल्यप्रमुखेन ( ३ ) Found only in D. ( ४ ) Found only
in D ;D, explains दुर्जन प्रलापै: ( ५ ) D, adds इतिकर्तव्यता-
मूढो भूत्वा इत्यर्थः । ( ६ ) Mt बोधयित्वा ( ७ ) D, मानं त्यज
( ८ ) D. अत मानापनयनाय भेदः प्रवर्तत इत्यवगन्तव्यः ( ९ ) D,
इति अवगन्तव्यः ( १० ) D, D, सत्युपेक्षा० ; Bm रत्युपेक्षा
( ११ ) D,,,, Bm नायिका नायकानां ( १२ ) Bm विप्रियकृतं.
सखी नायिकासन्निधौ नायकमाह -
 
दत्तोऽस्याः प्रणयस्त्वयैव भवता सेयं चिरं लालिता
 
दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् ।
 
°