This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
May Ambika's glance from harm thee keep !-
As the dark pupil mingles with the radiance deep
Of nails that brightens the back of her hand
 
In Khatakamukha pose, when the bowstring she stretches,
Graceful it flashes like the hovering bee,
 
When poised in greed over the blossoming spray
That hangs from her ear as a pendant gay. ( 1 )
 
मृडान्याः दुर्गायाः कटाक्षः अपाङ्गदर्शनं त्वां' पात्विति संबन्धः । कीदृशः
कटाक्षः । ज्याकृष्टिबद्धकटको मुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितः । ज्याकृष्टये
बद्धः मौर्वीकर्षणाय सज्जितः कटकौमुखपाणिः कटकोमुखो नाम धनुराकर्षण-
हस्तविशेषः । उक्तं च । तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते । यास्मिन्न-
नामिकायोगात्स हस्तः कटकॉमुख इति ॥ तस्य पृष्ठे पश्चाद्भागे प्रेङ्खन्तश्चलन्तः
नखानामंशवः तेषां चयः समूहस्तेन संवलितो मिश्रितः । पुनः कीदृशः ।
मञ्जरितकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत् । मञ्जरितः संजातमञ्जरीकः । तद-
स्य संजातं तारकादिभ्य इतच् इति इतच् प्रत्ययः । मञ्जरितश्चासौ पल्लवश्च स
एव कर्णपूर: कर्णावतंसस्तत्र लोभेन स्पृहया भ्रमंन् भ्रमरस्तस्य विभ्रमं लीलां
बिभर्ति इति बिभ्रत् । अत्रोपमालंकारः । नखांशुचयमञ्जर्योः पाणिपल्लवयोः
कटाक्षभ्रमरयोश्च सादृश्यप्रतीतेर्विद्यमानत्वात् । यथाकथंचित्सादृश्यं यत्रोद्भूतं
प्रतीयते । उपमा नाम सेत्युक्तत्वात् । अत्र कविः शृङ्गाररसात्मकं काव्यं
प्रारभमाणः आदौ वीररसाभिव्यञ्जिकां देव्या धनुराकर्षणक्रियां किमर्थमुक्त-
वानिति नाशङ्कनीयम् । यतः शृङ्गाररसात्मिकाया एव वश्यमुखीसंज्ञाया देव्याः-
ध्यानं विवक्षितवान् । उक्तं च त्रिपुरसरिसिंधौ -- संधाय सुमनोबाणं कर्षन्ती-
मैक्षवं धनुः । जगज्जैत्रीं जपारक्तां देवीं वश्यमुखीं भेजेदिति ॥
 
( ६ ) Ds
 
( १ ) Bm त्वां पातु रक्षत्विति
( २ ) Mg क्रियाकारकसंबंधः
( ३ ) D, ० खटिकामुख० ( ४ ) Da oमुष्टि०; Mg drops धनु-
राकर्षण before हस्तविशेषः ( ५ ) D3 खटिकामुखः
( ७ ) D1, D2, D, भ्रमन् संचरन्; D भ्रमन्
drops पुनः कीदृशः
चलन् ( ८ ) Bm विलासं ( ९ ) Da adds after विभ्रत्: एवंविधो